________________
प्रभावकचरिते
10
15
व्यवसाये क्षमः कीदृक्षेऽपि नाहं जनन्यपि । अस्य नश्यत्तनुस्माऽनन्यसुस्तद् वदामि किम् ॥ ३१ ॥ अत्र चेत् पूज्यपादानामाग्रहस्तन्मया नहि । विचारणं हि कर्तव्यं गृह्यतामेष नन्दनः ॥३२॥-विशेषकम् । प्रभुराहाथ मे पञ्चशती चारित्रिणां गणे । सर्वेऽपि ते सुताः सन्तु तवैकस्मादतः प्रति ॥ ३३ ॥ अमी साधर्मिका यावज्जीवं कशिपुदास्तव । धर्म धेह्यास्व निश्चिन्तः परलोकैकशम्बलम् ॥ ३४ ॥
तदम्बां च यथादेशकारिणीमनुमान्य च । पूर्णचन्द्रं दृढाभक्तिं प्रभवः समदीक्षयन् ॥ ३५ ॥ ६२. रामचन्द्राभिधां तस्य' ददुरानन्दनाकृतेः' । दर्शनोल्लासिनः सङ्घसिन्धुवृद्धिविधायिनः ॥३६॥
दुर्जेय त्वकलंकस्यापनोदादुपकारिणीम् । यत्प्रज्ञा दुर्गशास्त्राणामपि वाग्गोचरः स किम् ॥ ३७॥ तर्क-लक्षण-साहित्यविद्यापारगतः स च । अभूत् स्वपरसिद्धान्ते वर्तमाने कषोपलः ॥ ३८ ॥ शिवाद्वैतं वदन् धन्धः पुरे धवलके द्विजः । काठमीर: सागरो जिग्ये वादात सत्यपरे पुरे॥३९॥ तथा नागपुरे क्षुण्णो गुणचन्द्रो दिगंबरः । चित्रकूटे भागवतः शिवभूत्याख्यया पुनः ॥ ४० ॥ गंगाधरो गोपगिरौ धारायां धरणीधरः । पद्माकरो द्विजः पुष्करिण्यां वादमदोद्धरः॥४१॥ जितश्च श्रीभृगुक्षेत्रे कृष्णाख्यो ब्राह्मणाग्रणीः । एवं वादजयोन्मुद्रो रामचन्द्रः क्षितावभूत् ॥ ४२ ॥ विद्वान् विमलचन्द्रोऽथ हरिचन्द्रः प्रभानिधिः । सोमचन्द्रः पार्श्वचन्द्रो विबुधः कुलभूषणः ॥ प्राज्ञः शान्तिस्तथाऽशोकचन्द्रश्चन्द्रोल्लसद्यशाः । अजायन्त सखायोऽस्य मेरोरिव कुलाचलाः ॥४४॥ ततो योग्यं परिज्ञाय रामचन्द्रं मनीषिणम् । प्रत्यष्ठिपन् पदे दत्तदेवसूरिवराभिधम् ॥ ४५ ॥ पितुस्तस्य व्रतं वीरनागाख्यस्य स्वसुः पुनः । पुरात्तव्रतमुद्राया अमुद्राया महाव्रतैः ॥ ४६॥
महत्तराप्रतिष्ठां च व्यधुर्विधुरितांहसः । श्रीमचन्दनबालेति नामास्याः प्रददुर्मुदा ॥ ४७ ॥-युग्मम् । ६३. अन्यदा गुर्वनुज्ञाताः श्रीमन्तो देवसूरयः। विहारमादधुः पूज्याः पुरे धवलकाभिधे ॥४८॥
उदयो नाम तत्रास्ति विदितो धार्मिकाग्रणीः । श्रीमत्सीमंधरस्वामिबिम्बं सैष व्यधापयत् ॥ ४९ ॥ स प्रतिष्ठाविधौ तस्यानिश्चिन्वन् सद्गुरुं ततः । श्रीमच्छासनदेवी चारानोत् व्यहमुपोषितः ॥ ५० ॥ युगप्रधानकल्पेन श्रीमता दे रेणा। प्रतिष्ठापय बिम्वं स्वमित्युपादिशताथ सा ।। ५१ ॥
तत्तदर्थनया बिंबप्रतिष्ठां विधुस्तदा । ऊ दा व स ति नाम्ना तच्चैयमद्यापि विद्यते ॥ ५२॥ . ६४. अथ नागपुरेऽन्येयुः प्रभवो विजिहीर्षवः । गिरीन्द्रमव॒दं प्रापुरुत्का आरुरुहुश्च तम् ॥ ५३ ॥
मत्रिणोऽम्बप्रसादस्य गिरिमारोहतः सह । गुरुभिः कर्मवैचिच्याद् दन्दशूकोऽदशत् पदे ॥५४॥ ज्ञात्वा ते प्रेषयंस्तस्य हेतुं पादोदकं तदा । धौतमात्रे तदा तेन दंशोऽसौ निर्विषोऽभवत् ॥ ५५ ॥ श्रीनाभेयं नमस्कृत्य संसारार्णवतारणम् । तुष्टुवुः श्रीमदम्बां च प्रत्यक्षां शासनेश्वरीम् ॥ ५६ ॥ साऽवादीत् कथयिष्यामि किंचित्ते बहुमानतः । दूरे सपादलक्षे त्वं मा यासीन्मम वाक्यतः ॥ ५७ ॥ गुरुस्तवाष्टमासायुरस्मादेव दिनाद् यतः । व्यावर्त्तख ततो वेगादणहिल्लपुरं प्रति ॥ ५८ ।। इत्याख्याय तिरोधाच्च देवी दध्यौ ततः प्रभुः । मय्यम्बाया इवाम्बाया वत्सलत्वमहो महत् ।। ५९ ॥
व्यावृत्यायात् ततः पूज्यपुर आख्यत् सुरीवचः । आनन्दमसमं प्रापुस्ते कालज्ञानतो निजात् ॥ ६० ॥ ६५. अन्यदा देवबोधाख्यः श्रीभागवतदर्शनी । भूरिवादजयोन्मुद्रः श्रीमत्पत्तनमाययौ ॥ ६१ ॥
अवालम्वत पत्रं च राजद्वारे मदोद्धरः । तत्र श्लोकं दुरालोकं विबुधैरलिखच्च सः ॥ ६२ ॥
20
25
30
1D यस्य । 2 AD कृते। 3A दुर्जेयत्व N दुर्नेयल। 4 प्राजा। 5N बंधः। 6N अवलंबन
..