________________
10
५३२
प्रभावकचरिते धर्मः कृपैव जीवानां विवेकस्थ ! विचारय । इति संयमिनो वाचं स श्रुत्वा प्रत्यबुध्यत ॥ १५९॥ सर्व हित्वाऽग्रहीद् दीक्षामक्षीणश्रेयसे स च । शास्त्रेष्वधीतपूर्वी च जैनागममवाचयत् ॥ १६०॥ महाविद्वान् स गीतार्थः क्रिया-ज्ञानद्वयेऽप्यभूत् । प्रदीप इव दीपेन गुरुणा समदीधितिः ॥ १६१ ॥ श्रुतज्ञानात् परिज्ञाय स्वायुःपर्यन्तमन्यदा । गच्छभारं च शिष्येशे रुद्रे' श्रीवीरसूरयः ॥ १६२ ॥ श्रीचन्द्रसूरिरित्याख्यापूर्वकं ते न्यवेशयन् । स्वयं तु योगरोधेन तस्थुनिष्कंपसञ्चराः ॥ १६३ ॥ हित्वा देहं जरद्रेहमिव दिव्यभुवं ययुः । श्रीवीरप्रभवो बोधशक्तेराधारतां गताः ॥ १६४ ॥ वसु-वह्नि-निधौ (९३८) जन्म, व्रतं व्योम-वसु-अहे (२८०)।
इंद्र-नंद-ग्रहे (९९१) वर्षेऽवसानमभवत् प्रभोः ॥ १६५ ॥ गार्हस्थ्यं समभवत् तस्य द्विचत्वारिंशतं समाः। एकादशव्रतेऽथायुत्रिपञ्चाशत्समा अभूत् ॥ १६६ ॥
श्रीवीरसूरेविदितं चरित्रं कर्णावतंसं कुरुतात्र सन्तः। उत्कण्ठते श्रीजिनबोधिलक्ष्मीर्यथा महानन्दसुखप्रबोधा ॥ १६७ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ वीरस्य वृत्तं प्रभोः
श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गस्तिथीसंख्यया ॥१६८॥ नवोऽयं प्रद्युम्नः शिवसहचरः प्रीतिमतुलां
ददौ सन्तोषाय प्रकटरिपवे यो रतिमपि । कवित्वक्षों दायामृतरुचिसखित्वं च मनुते शुभध्यानोपायं परिहृतमदादिः स जयतु ॥ १६९॥
॥ ग्रं० १७१ अ० ५। उभयं ३५११ अ०५॥ ॥ इति श्रीवीरगणिप्रबन्धः॥
15
20
1A BN भद्रे। 2 D क्षोभाया।