________________
5
10
15
20
25
30
१२०
प्रभावकचरिते
स प्राह श्रूयतां देव्यौ श्रीसंघ ः प्रजिघाय माम् । पुस्तक्षशिलाख्यायाः शासनेशोपदेशतः ॥ ६२ ॥ अशिवोपशमार्थं श्रीमानदेवस्य सुप्रभोः । आह्नानायाथ मूर्खत्वान्ममैवा शिवमाययौ ॥ ६३ ॥ उवाच विजया तत्राशिवं किमिव नो भवेत् । तत्र युष्मादृशः श्राद्धा दर्शनच्छिद्रवीक्षकाः ॥ ६४ ॥ वराक ! न विजानासि प्रभावं त्वममुष्य भोः । मेघा वर्षन्ति सस्यानां निष्पत्तिश्चास्य सत्त्वतः ॥ ६५॥ श्री शान्तिनाथतीर्थेशासेविनी शान्तिदेवता । सा मूर्तिद्वितयं कृत्वाऽस्मद्व्याजाद् वन्दते मुम् ॥ ६६ ॥ विजयाह त्वयैकेन श्रावकेण ससंमदा' । प्रहिणोमि कथं पूज्यानकर्णहृदया किमु ॥ ६७ ॥ बहवस्त्वादृशाः' सन्ति यत्रेदृग्धार्मिकोत्तमाः । कथं भवेत् पुनर्दृश्यः प्रहितस्तत्र नो गुरुः ॥ ६८ ॥ सूरयः प्राहुरादेशः संघस्यावेय एव नः । अशिवोपशमः 'कार्यस्तदत्रस्थैर्विधास्यते ॥ ६९ ॥ वयं तु नागमिष्यामो ऽत्रत्यसंघाननुज्ञया । संघमुख्ये इमे देव्यौ तयोरनुमतिर्नच ॥ ७० ॥ अमूभ्यामुपदिष्टो यः पुरा कमठजल्पितः । अस्ति मन्त्राधिराजाख्यः श्रीपार्श्वस्य प्रभोः क्रमः ॥ ७१ ॥ श्री शान्तिनाथ- पार्श्वस्थप्रभुस्मृतिपवित्रितम् । गर्भितं तेन मत्रेण सर्वाशिवनिषेधिना ॥ ७२ ॥ श्री शान्तिस्तव नाभि ख्यं गृहीत्वा स्तवनं वरम् ।
स्वस्थो गच्छ निजं स्थानमशिवं प्रशमिष्यति ॥ ७३ ॥ - त्रिभिर्विशेषकम् । इत्यादेशं च संप्राप्य तथैव कृतवान् मुदा । प्राप्तस्तक्षशिलायां स स्तवं संघस्य चार्पयत् ॥ ७४ ॥ तस्य चाबालगोपालं पठतः स्तवनं मुदा । दिनैः कतिपयैरेव प्रशान्तोऽयमुपद्रवः ॥ ७५ ॥ कोऽपि कुत्रापि चायातः प्रणश्य' जनमध्यतः । गते वर्षत्रये भग्ना तुरुष्कैः सा महापुरी ॥ ७६ ॥ अद्यापि तत्र विम्बानि पित्तलाश्ममयानि च । तद्भगृहेषु सन्तीति ख्याता वृद्धजनश्रुतिः ॥ ७७ ॥ ततः प्रभृति संघस्य क्षुद्रोपद्रवनाशकः । स्तवः प्रवर्त्ततेऽद्यापि 'शान्ति शान्त्या दि'रद्भुतः ॥ ७८ ॥ मन्त्राधिराजनामाभूत् तस्य मन्त्रः प्रसिद्धिभूः । चिन्तामणिरिवेष्टार्थप्रद आराधनावशात् ॥ ७९ ॥ सूरिः श्रीमानदेवाख्यः शासनस्य प्रभावनाः । विधायानेकशो योग्यं शिष्यं पट्टे निवेश्य च ॥ ८० ॥ जिनकल्पाभसँल्लेखनया सँल्लिख्य विग्रहम् । आयुः प्रान्ते परं ध्यानं विभ्रत् त्रिदिवमाप सः ॥ ८१ ॥ इत्थं श्रीमन्मान देवप्रभूणां वृत्तं चित्तस्थैर्यकृन्मादृशानाम् । विद्याभ्यासैकाग्रहध्यानमन्यव्यासङ्गानां यच्छतादुच्छिदं च ॥ ८२ ॥ श्रीचन्द्रप्रभसूरिपहसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहण गिरौ प्रद्युम्नसूरीक्षितः
शृङ्गोऽसावगमत् त्रयोदश इह श्रीमानदेवाश्रयः ॥ ८३ ॥ सर्वज्ञचिन्तनवशादिव तन्मयत्वमासादयन् जयति जैनमुनिः स एषः । प्रद्युम्न सूरिरपि भूरिमतिः कवीनामर्थेषु काव्यविषयेषु विचक्षणो यः ॥ ८४ ॥
॥ ग्रं० ८८, अ० १६ । उभयं ३२०२ ॥
॥ इति श्रीमान देवसूरिप्रबन्धः# ॥
1 B N समं मुदा । 2 A तादृशाः । 3BD कार्यं । 4 Nविधाप्यते । 5 N प्रगम्य । 6 A ° नाशनः । * B आदर्श एवोपलभ्यते पंक्तिरियम् ।