________________
प्रभावकचरिते
एवमप्यर्दितः' संघो वात्सल्याजननीयुतः । ईदृक् श्रुतस्य पात्रं हि 'दुःप्रापं मा विशीर्यताम् ॥ २७ ॥ विकृति माहितस्तेन चतुर्मासिकपारणे । साधवस्तत्र गत्वाऽस्य प्रायच्छन् भोजनं मुनेः ॥ २८ ॥ श्रुतदेवतया संघसमाराधितया ततः । ऊचेऽन्यदा परीक्षार्थ 'के मिष्टा' इति भारती ॥ २९ ।। 'वल्ला' इत्युत्तरं प्रादान मल्लः फुल्लतपोनिधिः । षण्मासान्ते पुनः प्राह वाचं 'केनेति' तत्पुरः ॥ ३०॥ उक्त 'गुड-घृतेनेति' धारणातस्तुतोष सा। वरं वृण्विति च प्राह तेनोक्तं यच्छ पुस्तकम् ॥ ३१ ॥ श्रुताधिष्ठायिनी प्रोचेऽवहितो मद्वचः शृणु । ग्रन्थेऽत्र प्रकटे कुर्युर्दृषिदेवा उपद्रवम् ॥ ३२ ॥ श्लोकेनैकेन शास्त्रस्य सर्वमर्थ ग्रहीष्यसि । इत्युक्त्वा सा तिरोधत्त गच्छं मल्लश्च सङ्गतः ॥ ३३ ॥ नयचक्रं नवं तेन श्लोकायुतमितं कृतम् । प्राग्ग्रन्थार्थप्रकाशेन सर्वोपादेयतां ययौ ॥ ३४ ॥
शास्त्रस्यास्य प्रवेशं च' संघश्चक्रे महोत्सवात् । हस्तिस्कन्धाधिरूढस्य प्रौढस्येव महीशितुः ॥ ३५ ॥ 10 ६२. अन्यदा श्रीजिनानन्दप्रभुस्तत्रागमच्चिरात् । सूरित्वे स्थापितो मल्लः श्राद्धैरभ्यर्थ्य सद्गुरुम् ॥ ३६ ।।
तथा 'ऽजितयशोनामा प्रमाणग्रन्थमादधे । अल्लभूपसभेवादिश्रीनन्दकगुरोगिरा ॥ ३७॥ शब्दशास्त्रे च विश्रान्तविद्याधरवराभिधे । न्यासं चक्रेऽल्पधीवृन्दबोधनाय स्फुटार्थकम् ॥ ३८ ॥ यक्षेण संहिता चक्रे निमित्ताष्टाङ्गबोधनी । सर्वान् प्रकाशयत्यर्थान् या दीपकलिका यथा ॥ ३९॥
मल्लः समुल्लसन्मल्लीफुल्लवेल्लद्यशोनिधिः । शुश्राव स्थविराख्यानात् न्यक्कार बौद्धतो गुरोः ॥ ४० ॥ 15 अप्रमाणैः प्रयाणैः स भृगुकच्छं समागमत् । संघः प्रभावनां चके प्रवेशादिमहोत्सवैः ॥४१॥
बुद्धानन्दस्ततो बौद्धानन्दमद्भुतमाचरत् । श्वेताम्बरो मया वादे जिग्ये दपं वहन्नमुम् ॥ ४२ ॥ , यस्योन्नमत्यपि भ्रूर्नावलेपभरभारिता । जगद्मष्टं कृपापात्रं मन्यते स धरातलम् ।। ४३ ॥ जैन(नागतान् श्रुत्वा विशेषादुपसर्गकृत् । संघस्याथ महाकोशो विशां वृन्दैरवीवदत् ॥ ४४ ॥ .
पूर्वजः श्वेतभिक्षूणां वादमुद्राजयोद्धुरः । स्याद्वादमुद्रया सम्यगजेयः परवादिभिः ॥ ४५ ॥ 20 परं सोऽपि मयात्मीयसिद्धान्तः प्रकटीकृतैः । कलितश्शुलुके कुम्भोद्भवेनेव पयोनिधिः ॥ ४६ ॥-युग्मम् ।
किं करिष्यति बालोऽसावनालोकितकोविदः । गेहेनर्दी सारमेय इवासारपराक्रमः ॥ ४७ ॥ काचित्तस्यापि चेच्छक्तिस्ततो भूपसभापुरः । स्खं दर्शयतु येनैणं वृकवद् ग्रासमानये ॥ १८ ॥ मल्लाचार्य इति श्रुत्वा लीलया सिंहवत् स्थिरः । गम्भीरगीभरं प्राह ध्वस्तगाऽद्विषन्नणाम् ॥ ४९ ॥
जैनो मुनिः शमी कश्चिदविवादावदातधीः । जितो जित इति स्वेच्छावादोऽयं किं घटापटुः ॥५०॥ 25 अथवास्तु मुधा चित्तावलेपं शल्यवद् दृढम् । अलमुद्धर्तुमेतस्य सज्जोऽस्मि विलसज्जयः ॥ ५१॥
सज्जनो मे सहच्चापि ज्ञास्ये स्थास्यति" चेत्पुरः । तिष्ठन् स्वकीयगेहान्तर्जनो भूपेऽपि कद्वदः ॥५२॥ प्रत्यक्षं प्राश्निकानां तन्मध्येभूपसभं भृशम् । अनूद्यतां यथा प्रज्ञाप्रामाण्यं लभ्यते ध्रुवम् ॥ ५३ ॥ इत्याकर्ण्य वचः स्मित्वा वुद्धानन्दोऽप्युवाच च । वावदूकः शिशुप्रायः" कस्तेन सह संगरः ॥ ५४॥ अस्तु वासौ निराकृत्य एव मे द्विषदन्वयी । ऋणस्तोकमिवासाध्यः कालेनासौ हि दुर्जयः ॥ ५५ ॥ ततः क्रूरे मुहूर्ते च तौ वादि-प्रतिवादिनौ । संसद्याजग्मतुः सभ्याः पूर्ववादं लघोर्ददुः ॥ ५६ ॥ मल्लाचार्यः स षण्मासी यावत् प्राज्ञार्यमावदत् । नयचक्रमहाग्रन्थाभिप्रायेणात्रुटद्वचाः ॥ ५७ ॥ नावधारयितुं शक्तः सौगतोऽसौ गतो गृहम् । मल्लेनाप्रतिमल्लेन जितमित्यभवन् गिरः ॥ ५८ ॥
1N B प्यतिसंघो। 2 N दुःप्राय भावि शीर्यताम् । 3N तदा। 4 C°मास्यन्ते। 5 Nह। 6 N B प्रौढस्य च । 7 N मिनयशो। 8C अल्लूभूप। 9-A-गुरौ। 10 B N सुहृद्वापि । 11 B C स्थास्यसि। 12 A वावदूकशिशुप्रायः; C शिशुः प्रायः।