________________
os
argura
१९६
त्रयोदशं परिशिष्टम् दन्तानामञ्जनं श्रेष्ठ, कर्णानां दन्तधावनम् । शिरोऽभ्यङ्गश्च पादानां, पादाभ्यङ्गश्च चक्षुषोः ॥
__विभागः ४ पत्रम् १०६३ पूर्वाह्न वमनं दद्यादपराह्ने विरेचनम् । वातिकेष्वपि रोगेषु, पथ्यमाहुर्विशोषणम् ॥
विभागः ४ पत्रम् १९७९ [२० शकुनशास्त्रसम्बद्धो विभागः] चोरस्स करिसगस्स य, रित्तं कुडयं जणो पसंसेइ । गेहपवेसे मन्नइ, पुन्नो कुंभो पसत्यो उ ॥
विभागः १ पत्रम् ७ मइल कुचेले अभंगियल्लए साण खुज वडमे या।।
एए तु अप्पसत्था, हवंति खित्ताउ णितस्स ॥ १५४७ ॥ 'मलिनः' शरीरेण वा मलीमसः 'कुचेलः' जीर्णवस्त्रपरिधानः 'अभ्यङ्गितः' स्नेहाभ्यक्तशरीरः श्वा
( दक्षिणपार्श्वगामी 'कुब्जः' वक्रशरीरः 'वडभः' वामनः । 'एते' मलिनादयोऽप्रशस्ता भवन्ति क्षेत्रान्निर्गच्छतः ॥ १५४७ ॥ तथा
रत्तपड चरग तावस, रोगिय विगला य आउरा वेजा। __ कासायवत्थ उद्धूलिया य जत्तं न साहति ॥ १५४८॥ 'रक्तपटाः' सौगताः, 'चरकाः' काणादा धाटीवाहका वा, 'तापसाः' सरजस्काः, 'रोगिणः' कुष्ठादिरोगाक्रान्ताः, "विकलाः' पाणि-पादाद्यवयवव्यङ्गिताः, 'आतुराः' विविधदुःखोपद्रुताः, 'वैद्याः' प्रसिद्धाः, 'काषायवस्त्राः' कषायवस्त्रपरिधानाः, 'उद्धलिताः' भस्मोद्धलितगात्रा धूलीधूसरा वा। एते क्षेत्रान्निर्गच्छद्भिदृष्टाः सन्तो यात्रागमनं तत्प्रवर्तकं कार्यमप्युपचाराद् यात्रा तां न साधयन्ति ॥ १५४८ ॥ उक्ता अपशकुनाः । अथ शकुनानाह
नंदीतूरं पुण्णस्स दसणं संख-पडहसदो य । भिगार-छत्त-चामर-वाहण-जाणा पसत्थाई ॥१५४९॥ समणं संजयं दंतं, सुमणं मोयगा दधिं ।
मीणं घंटे पडागं च, सिद्धमत्थं वियागरे ॥ १५५० ॥ 'नन्दीतूर्य' द्वादशविधतूर्यसमुदायो युगपद् वाद्यमानः, 'पूर्णस्य' पूर्णकलशस्य दर्शनम् , शङ्ख-पटहयोः शब्दश्च श्रूयमाणः, भृङ्गार-च्छत्र-चामराणि प्रतीतानि 'वाहन-यानानि' वाहनानि-हस्तितुरङ्गमादीनि यानानिशिबिकादीनि, एतानि 'प्रशस्तानि' शुभावहानि ॥ १५४९ ॥
'श्रमणं' लिङ्गमात्रधारिणम् , 'संयत' पटकायरक्षणे सम्यग्यतम् , 'दान्तम्' इन्द्रिय-नोइन्द्रियदमनेन, 'सुमनसः' पुष्पाणि, मोदका दधि च प्रतीतम् , 'मीनं' मत्स्यम् , घण्टां पताकां च दृष्ट्वा श्रुत्वा वा 'सिद्ध' निष्पन्नम् 'अर्थ' प्रयोजनं व्यागृणीयादिति ॥ १५५० ॥ विभागः २ पत्रम् ४५५-५६
दिटुंतो पुरिसपुरे, मुरुडदूतण होइ कायव्वो।
जह तस्स ते असउणा, तह तस्सितरा मुणेयव्वा ॥ २२९१ ॥ दृष्टान्तोऽत्र पुरुषपुरे रक्तपटदर्शनाकीर्णे मुरुण्डदूतेन भवति कर्त्तव्यः । यथा 'तस्य' मुरुण्डदृतस्य 'ते' रक्तपटा अशकुना न भवन्ति, तथा 'तस्य' साधोः 'इतराः' पार्श्वस्थ्यादयो मुणितव्याः, ता दोषकारिण्यो न भवन्तीत्यर्थः ॥ २२९१ ॥ इदमेव भावयति
पाडलि मुरुडदूते, पुरिसपुरे सचिवमेलणाऽऽवासो।
भिक्खू असउण तइए, दिणम्मि रन्नो सचिवपुच्छा ॥ २२९२॥ पाटलिपुत्रे नगरे मुरुण्डो नाम राजा । तदीयदूतस्य पुरुपपुरे नगरे गमनम् । तत्र सचिवेन सह मीलनं । तेन च तस्य आवासो दापितः । ततो राजानं द्रष्टुमागच्छतः 'भिक्षवः' रक्तपटा अशकुना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org