________________
१९३
त्रयोदशं परिशिष्टम्
जम्,
"पट्ट" त्ति पट्टसूत्रजम् “सुवन्ने” त्ति सुवर्णवर्णं सूत्रं केषाञ्चित् कृमीणां भवति तन्निष्पन्नं सुवर्णसूत्रमलयो नाम देशस्तत्सम्भवं मलयजम्, अंशुकः- श्लक्ष्णपट्टः तन्निष्पन्नमंशुकम्, चीनांशुको नामकोशिकाराख्यः कृमिः तस्माद् जातं चीनांशुकम्, यद्वा चीना नाम जनपदः तत्र यः श्लक्ष्णतरः पट्टस्तस्माद् जातं चीनांशुकम् एतानि विकलेन्द्रियनिष्पन्नानि । तथा और्णिकमौष्ट्रिकं मृगरोमजं चेति प्रतीतानि, कुतपो जीणम्, किटं-तेषामेवोर्णारोमादीनामवयवाः तन्निष्पन्नं वस्त्रमपि किहं, एतानि पञ्चे - न्द्रियनिष्पन्नानि द्रष्टव्यानि ॥। ३६६२ ॥ अथ भाङ्गिकादीनि चत्वार्यप्येकगाथया व्याचष्टे
अतसी-वंसीमादी, उ भंगियं साणियं च सणवक्के |
पोत्तय कप्पासमयं तिरीडरुक्खा तिरिडपट्टो || ३६६३ ॥
अतसीमयं वा “वंसि” त्ति वंशकरीलस्य मध्याद् यद् निष्पद्यते तद् वा, एवमादिकं भाङ्गिकम् । यत् पुनः सनवृक्षवल्काद् जातं तद् वस्त्रं सानकम् । पोतकं कर्पासमयम् । तिरीटवृक्षवल्काद् जातं तिरीटपट्टकम् विभागः ४ पत्रम् १०१७-१८
॥ ३६६३ ॥
वच्चक मुंजं कत्तंति चिप्पिउं तेहि वूथए गोणी । पाउरणत्थुरणाणि य, करेंति देसिं समासज ॥ ३६७५ ॥
कचिद् धर्मचक्रभूमिकादौ देशे 'वच्चकं' दर्भाकारं तृणविशेषं 'मुजं च ' शरस्तम्वं प्रथमं 'चिप्पित्वा' कुट्टयित्वा तदीयो यः क्षोदस्तं कर्त्तयन्ति । ततः 'तैः' वचकसूत्रैर्मुञ्जसूत्रैश्च 'गोणी' वोरको व्यूयते, प्रावरणा-SSस्तरणानि च 'देशी' देशविशेषं समासाद्य कुर्वन्ति । अतस्तन्निष्पन्नं रजोहरणं वञ्चकचिप्पकं मुञ्जचिप्पकं वा भण्यते ॥ ३६७५ ॥ विभागः ४ पत्रम् १०२१-२२
( २ ) सुरायाः प्रकाराः
अथ सुरा - सौवीरकपदे व्याचष्टे
पिट्टेण सुरा होती, सोवीरं पिट्ठवज्जियं जाणे ।
ठायंतगाण लहुगा, कास अगीयत्थ सुत्तं तु ॥ ३४०६ ॥
व्रीह्यादिसम्बन्धिना पिष्ठेन यद् विकटं भवति सा सुरा । यत्तु पिष्टवर्जितं द्राक्षा-खर्जूरादिभिर्दव्यैर्निप्पाद्यते तद्मयं सौवीरकविकटं जानीयात् । एतद् द्विविधमपि यत्रोपनिक्षिप्तं भवति तत्रोपाश्रये तिष्ठतां चतुर्लघुकाः । विभागः ४ पत्रम् ९५३
गोडीणं पिट्टीणं, वंसीणं चैव फलसुराणं च । दिट्ठ मए सन्निचया, अन्ने देसे कुटुंबीणं ॥ ३४१२ ॥
'itsari' गुडनिप्पन्नानां 'पैष्टीनां' श्रीह्यादिधान्यक्षोदनिष्पन्नानां 'वांशीनां' वंशकरीलकनिष्पन्नानां 'फलमुराणां च' तालफल- द्राक्षा-खर्जूरादिनिष्पन्नानाम् एवंविधानां सुराणां सन्निचया अन्यस्मिन् देशे मया कुटुम्विनां गृहेषु दृष्टाः ॥ ३४१२ ॥ विभागः ४ पत्रम् ९५४
(३) सहस्रानुपातिविषम्
सहस्रानुपातिविषं भक्ष्यमाणं सहस्रान्तरितमपि पुरुषं मारयति ।
Jain Education International
विभागः ४ पत्रम् ११४२
[ १६ प्राकृतव्याकरणविभागः ]
काऊण नमोक्कारं, तित्थयराणं तिलोगमहियाणं ॥० ॥ १ ॥
'कृत्वा' विधाय 'नमस्कारं ' प्रणामम्, केभ्यः ? इत्याह- 'तीर्थकरेभ्यः' तीर्यते संसारसमुद्रोऽनेनेति तीर्थद्वादशाङ्गं प्रवचनं तदाधारः सङ्घो वा, तत्करणशीलास्तीर्थकरास्तेभ्यः । गाथायां पष्ठी चतुर्थ्यर्थे प्राकृतत्वात् । उक्तं च - "छट्टिविभत्तीए भन्नइ चउत्थी" इति । x
X X
सक्कयपाययत्रयणाण विभासा जत्थ जुजते जं तु |० ॥ २ ॥
For Private & Personal Use Only
www.jainelibrary.org