________________
श्री प्रश्नव्याकरण सूत्र
कादम्बक - बक - बलाका - सारस - आडा - सेतीक - कुलल-वंजुलपारिप्लव - कीर (कोव)-शकुन - दीपिका - (पिपीलिका) -हंस-धृतराष्ट्रपवभास (कभास) - कुटोक्रोश - क्रौंच - दकतुण्ड - ढेलि (णि) कालगसूचीमुख - कपिल-पिंगल - (पिंगलाक्षक) - काक-कारण्ड (करण्ड)-चक्रवाकउत्क्रोश-गरुड़-पिंगुल-शुक-बहि-मदनसाला (शाला) - नंदीमुख-नन्दमानककोरंक-भगारक-कोणालक-जीवजीवक-तित्तिर-वर्तक - लावक- कपिजलककपोतक-पारावतक-चटक-ढिंक-कुकुटक-मसर (वेसर)-मयूरक-चकोरकह्रदपौण्डरीक (शालक)-करक-चिरल्ल (वीरल्ल)-श्येन-वायस-विहग-(विहंग)भेनाशित्-चास-( चाष ) -वल्गुलि-चर्मस्थिल-विततपक्षि-समुद्गपक्षि-खचरविधानकृतांश्चैवमादीन् । . जलस्थलखचारिणस्तु (श्च) पञ्चेन्द्रियान् . पशुगणान् द्विकत्रिकचतुरिन्द्रियान् विविधान् जीवान् प्रियजीवितान् मरणदुःखप्रतिकूलान् वराकान् ध्नन्ति बहुसंक्लिष्टकर्माणः ।
एभिविविध कारणैः, किं तत् ? चर्म-वसा-मांस-मेदः-शोणित-यकृत्फिप्फिस-मस्तुलिंग-हृदयान्त्रपित्तफोफस-दंतार्थम, अस्थि-मज्जा-नख-नयनकर्ण-स्नायु-नासिका- धमनी-शृग - दंष्ट्रा - पिच्छ-विष-विषाण - बालहेतोः, हिंसंति च ।
भ्रमरमधुकरीगणान् रसेषु गृद्धाः, तथैव त्रीन्द्रियान् शरीरोपकरणार्थ कृपणान्, द्वीन्द्रियान् बहून् वस्त्रोपगृहपरिमण्डनार्थम्।
अन्यैश्चैवमादिभिः बहुभिः कारणशतैरबुधा इह हिंसन्ति त्रसान् प्राणान्, इमांश्चैकेन्द्रियान् बहून् वराकान् प्रसांश्चान्यांस्तदाश्रितांश्चैव तनुशरीरान्, समारंभन्ते।
__ अत्राणान्, अशरणान्, अनाथान्, अबान्धवान्, कर्मनिगडबद्धान्, अकुशलपरिणाममंदबुद्धिजन-दुर्विज्ञेयान्, पृथिवीमयान्, पृथिवीसंश्रितान्, जलमयान् जलगतान्, अनलानिल - तृणवनस्पतिगणनिश्चितांश्च तन्मयतज्जीवांश्चैव तदाधारान् (तवाहारान्) तत्परिणतवर्णगन्धरसस्पर्शशरीररूपान् अचाक्ष षांश्चाक्ष षांश्च त्रसकायान् असंख्यान् स्थावर कायांश्च सूक्ष्मबादरप्रत्येकशरीरनामसाधारणांश्चानन्तान् घ्नन्ति अविजानतश्च परिजानतश्च जीवान् एभिविविधः कारणः, कि तत् ? ____कर्षण-पुष्करिणी-वापी - वप्र-कूप-सरस्तडाग-चिति-वेदिका-खातिकाआराम-विहार-स्तूप-प्राकार-द्वार-गोपुर-अट्टालक-चरिका-सेतु-संक्रम-प्रासादविकल्प-भवन-गृह-शरण-लयन-आपण-चैत्य-देवकुल-चित्रसभा-प्रपा- आयतन