SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ ८०६ श्री प्रश्नव्याकरण सूत्र संसारः, सततं मरणानां पारगः, पारगश्च सर्वेषां संशयानां, प्रवचनमातृभिरष्टाभिरष्टकर्मग्रन्थिविमोचकः, अष्टमदमथनः, स्वसमयकुशलश्च भवति सुखदुःखनिविशेषः, आभ्यन्तरबाह्ये सदा तपउपधाने च सुष्ठद्य क्तः, क्षान्तो, दान्तश्च, हितनिरतः, ईर्यासमितो, भाषासमित, एषणासमितः, आदानभाण्डामत्रनिक्षेपणासमित, उच्चारप्रसवणखेलसिंधानजल्लपरिष्ठापनिकासमितो, मनोगुप्तो, वचोगुप्त , कायगुप्तो, गुप्तेन्द्रियो, गुप्तब्रह्मचारी, त्यागी, लज्जुः (लज्जालुः रज्जुर्वां), धन्यः, तपस्वी, शान्तिक्षमो, जितेन्द्रियः शोभितः (शोधितः शोधिदो वा) अनिदानः, अबहिर्लेश्यः, अममः, अकिंचनः, छिन्नग्रन्थो, निरुपलेपः, सुविमलवरकांस्यभाजनमिव मुक्ततोयः, शंख इव निरंजनो, विगतरागद्वषमोहः, कुर्म इवेन्द्रियेषु गुप्तो, जात्यकांचनकमिव जातरूपः, पुष्करपत्रमिव निरुपलेपः, चन्द्र इव सौम्यभावतया, सूर इव दीप्ततेजा, अचलो यथा मन्दरो गिरिवरोऽक्षोभः सागर इव स्तिमितः, पृथ्वीव सर्वस्पर्शसहः, तपसाऽपि च भस्मराशिच्छन्न इव जाततेजाः, ज्वलितहुताशन इव तेजसा ज्वलन्, गोशीर्षचन्दनमिव शीतलः सुगन्धश्च, हदक (द्रह) इव समिकभावः, उद्धृष्ट-(उद्घर्षित) सुनिर्मलं वा आदर्शमंडलतलं वा प्रकट भावेन शुद्धभावः, शौण्डीरः कुंजर इव, वृषभ इव जातस्थामा, सिंहो वा यथा मुगाधिपो भवति दुष्प्रधयः, शारद लिलमिव शुद्धहृदयः, भारंड इवाप्रमत्तः, खङ्गिविषाणमिव एकजातः, स्थाणरिवो ध्वकायः, शून्यागारमिवाप्रतिकर्मा, शून्यागारापणस्यान्तर्- निर्वातशरणप्रदीपध्यानमिव निष्प्रकम्पः, यथा क्ष रश्चेव एकधारो, यथाऽहिश्चेव एक दृष्टिः, आकाशं चेव निरालम्बः विहग इव सर्वतो विप्रमुक्तः, कृतपरनिलयोयथा चेवोरगः, अप्रतिबद्ध अनिल इव, जीव इवाप्रतिहतगतिः, ग्रामे ग्रामे एकरात्रं, नगरे नगरे च पंचरात्र द्रवन् (विचरन) च जितेन्द्रियो जितपरिषहो निर्भयो विद्वान् (विशुद्धो अथवा अद्विकः) सचित्ताचित्तमिश्रकेषु द्रव्येषु वैराग्यं गतः, संचयाद् विरतो मुक्तो लघुको निरवकांक्षो जीवितमरणाशाविप्रमुक्तो निःतन्धं निर्बणं चारित्र धीरः कायेन स्पृशन् सततमध्यात्मध्यानयुक्तो निभृत एकश्चरेद् धर्मम् । इदं च परिग्रहविरमणपरिरक्षणार्थं प्रवचनं भगवता सुकथितमात्महितं प्रेत्यभाविकम् आगमिष्यद्भद्रं शुद्धं, नैयायिकम्, अकुटिलमनुत्तरं, सर्वदुःखपापानां व्युपशमनम्।
SR No.002476
Book TitlePrashna Vyakaran Sutra
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyanpith
Publication Year1973
Total Pages940
LanguageHindi
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy