________________
३६७
चतुर्थ अध्ययन : अब्रह्मचर्य-आश्रव श्रोणयो, वदनाऽयामप्रमाणद्विगुणितविशालमांसलसुबद्धजघनवरधारिण्यो, वज्रविराजितप्रशस्तलक्षणनिरुदराः, त्रिवलिवलित(क)तनुनमितमध्याः, ऋजुकसमसहितजात्यतनुकृष्णस्निग्धादेयलडहसुकुमालमृदुसुविभक्तरोमराजयो, गंगावर्तकप्रदक्षिणावर्त्ततरंगभंगरविकिरणतरुणबोधिताऽकोशायमानपद्म . गम्भीरविकटनाभयो, अनुभटप्रशस्तसजातपीनकुक्षयः, सन्नतपावाः, सुजातपााः संगतपार्वा,मितमात्रिकपीनरतिद (रचित)-पार्वा, अकरंडककनकरुचकनिर्मलसुजातनिरुपहतगात्रयष्टयः, कांचनकलशप्रमाणसमसंहितलष्टच्चुकाऽमेलकयमलयुगलत्तितपयोधरा, भुजंगाऽनुपूर्वतनुकगोपुच्छवृत्तसमसंहितनमितादेयलडहबाहवस्ताम्रनखा, मांसलाग्रहस्ताः, कोमलपीवरवरांगुलीकाः,स्निग्धपाणिरेखाः,शशिसूरशंखचक्रवरस्वस्तिकविभक्तसुविरचितपाणिरेखाः, पीनोन्नतकक्षवस्तिप्रदेशप्रतिपूर्णगल पोला, चतुरंगुलसुप्रमाणकम्बुवर सदृशग्रीवा, मांसलसंस्थितप्रशस्तहनुका, दाडिमपुष्पप्रकाशपीवरप्रलम्बकुचितवराधराः, सुन्दरोत्तरोष्ठा, दधिदकरजःकुन्दचन्द्रवासन्तीमुकुलाच्छिद्रविमलदशना, रक्तोत्पलपद्मपत्रसुकुमालतालुजिह्वाः, करवीरमुकुलाऽकुटिलाऽभ्युन्नतर्जुतुंगनासाः, शारदनवकमलकुमुदकुवलयदलनिकरसदृशलक्षणप्रशस्ताऽजिमकान्तनयना, आनामित-चापरुचिरकृष्णाऽभ्रराजिसंगतसुजाततनुकृष्णस्निग्धभू का, आलीनप्रमाणयुक्तश्रवणाः, सुश्रवणाः,पीनमृष्टगंडरेखाश्चतुरंगुलविशालसमललाटाः, कौमुदीरजनीकरविमलप्रतिपूर्णसौम्यवदनाश्छत्रोन्नतोत्तमांगा,अकपिलसुस्निग्धदीर्घशिरोजाश्छत्रध्वजयूपस्तूपदामिनीकमंडलुकलशवापीस्वस्तिकपताकायवमत्स्यकूर्मरथवरमकरध्वजांक-. स्थालांकुशाष्टापदसुप्रतिष्ठकाऽमर . श्रीकाऽभिषेकतोरणमेदिन्युदधिवरप्रवरभवनगिरिवरवरादर्शसललितगजर्षभसिंहचामरप्रशस्तद्वात्रिंशल्लक्षण - धर्यो, हंससदृक्षगतयः, कोकिलमधुरगिरः, कान्ताः, सर्वस्याऽनुमता, व्यपगतवलीपलितव्यंगदुर्वर्णव्याधिदौर्भाग्यशोकमुक्ता, उच्चत्वेन च नराणां स्तोकोनमुच्छिताः, श्रृंगारागारचारुवेषाः, सुन्दरस्तनजघनवदनकरचरणनयना, लावण्यरूपयौवनगुणोपपेता, नन्दनवनविवरचारिण्य इवाऽप्सरस उत्तरकुरुमानुष्याऽप्सरस, आश्चर्यप्रेक्षणीयाः,त्रीणि च पल्योपमानि परमायूंषि पालयित्वा ताश्चाऽप्युपनमन्ति मरणधर्ममवितप्ताः कामानाम् ॥ सू० १५॥
पदार्थान्वय (य) और (तेसि) उनकी (पमदा वि) स्त्रियाँ भी (सौम्मा) सौम्यशान्तस्वभाव वाली (सुजायसव्वंगसुंदरीओ) उत्तम सर्वांगों से सुन्दर, (पहाणमहिला