________________
तृतीय अध्ययन : अदत्तादान-आश्रव
२७५ मलिनदंडिखंडवसना उत्कोटालंचपार्श्वमार्गणपरायणैः (दुःखसमुदीरणैः) गौल्मिकभटैः विविधर्बन्धनैः। ___कानि तानि ? हडि-निगडबालरज्जुक - कुदंडक-वरत्र - लोहसंकलाहस्तान्दुक - वर्धपट्ट - दामक - निष्कोटनैर् अन्यैश्चैवमादिकैर् गौल्मिकभांडोपकरणैर् दुःखसमुदीरणैः संकोटनामोटनाभ्यां बध्यन्ते मन्दपुण्याः, सम्पुट-कपाट-लोह-पंजर - भूमिगृह- निरोध - कूप - चारक-कोलक-यूप-चक्रविततबन्धनस्तम्भालगन - ऊध्वचरणबंधन-विधर्मणाभिश्च विहेड्यमानाः, अवकोटकगाढोरःशिरोबद्धोद्ध्वपूरित अशुभपरिणताश्च) स्फुरदुरःकटकमोटनाऽऽम्र डनाभ्यां बद्धाश्च निश्वसन्तः शीर्षावेष्टकोरुकावलचप्पडकसंधिबंधन - तप्तशलाकासूचिकाकोटनानि तक्षणविमाननानि च क्षारकटुकतिक्तदानयातनाकारणशतानि बहुकानि प्राप्यमाणा उरःखोडीदत्तगाढ़प्रेरणास्थिकसंभग्नसुपाङस्थिका गलकालकलोहदंडोर उदरवस्ति(पृष्ठि) परिपीडिता मथ्यमान-हृदयसंचूर्णितांगोपांगा आज्ञप्तिकिकरैः केचिद् अविराधितवैरिकैर् यमपुरुषसन्निभैः प्रहतास्ते तत्र मंदपुण्याश्चडवेला-वध पट्ट - पाराइ (लोहकुशीविशेषः) छिवा (श्लक्ष्णकषः) कषलतावरत्रवेत्रप्रहारशतताडितांगोपांगाः, कृपणाः लंबमानचर्मव्रणवेदनाविमुखितमनसो, धनकुट्टिमनिगडयुगलसंकोटितमोटिताश्च क्रियते निरुच्चारा एता अन्याश्चैवमादिका वेदनाः पापाः प्राप्नुवन्ति ; अदान्तेन्द्रिया, वशार्ता बहुमोहमोहिताः परधने लुब्धाः स्पर्शेन्द्रियविषयतीव्रगृद्धाः स्त्रीगतरूपशब्दरसगन्धेष्टरतिमहित -- (वांछित) भोगतृष्णादिताश्च धनतोषका गृहीताश्च ये नरगणाः।
पुनरपि ते कर्मदुविदग्धा उपनीता राजकिकराणां तेषां वधशास्त्रपाठकानां विटपोल्ल ( विटल) कारकाणां (अन्यायकर्तृणां अथवा चौर्यादिदुष्टकर्मकारकाणां) , लंचाशतग्राहकाणां कूटकपटमायानिकृत्याचरणप्रणिधिवचनविशारदानां बहुविधालीकशतजल्पकानां परलोकपराङ मुखानां निरयगतिगामिकानां तेश्चाज्ञप्तजीत(जीव) - दंडास्त्वरितं उद्घाटिताः पुरवरे शृंगाटक-त्रिक-चतुष्क-चत्वर-चतुर्मुखमहापथपथेषु वेत्र-दंड-लकुटकाष्ठ-लेष्टु-प्रस्तरप्रणाली-प्रणोदी - मुष्टिलता-पादपाष्णि - जानु-कुर्परप्रहारसंभग्नमथितगात्रा, अष्टादशकर्मकारणात् यातितांगोपांगाः करुणाः शुष्कौ