________________
१०८
श्री प्रश्नव्याकरण सूत्र
संस्कृत-छाया पूर्वकर्मोदयोपगताः पश्चादनुशयेन दह्यमाना निन्दन्तः पुराकृतानि कर्माणि पापकानि तत्र तत्र तादृशानि अवसन्नचिक्कणानि दुःखानि अनुभूय ततश्चायु:क्षयेणोदवत्ताः सन्तो बहवो गच्छन्ति तिर्यग्वति दुःखोत्तारां सुदारुणां, जन्ममरणजराव्याधिपरिवर्तनारघट्टां जल-स्थल-खेचरपरस्परविहिसनप्रपञ्चां, इदं च जगत्प्रकटं वराका दुःखं प्राप्नुवन्ति. दीर्घकालम् । कि तत?,शीतोष्ण-तृष्णा-क्षद् वेदनाऽप्रतीकाराऽटवीजन्म-नित्यभयोद्विग्नवासजागरण-वध-बंधन-ताड़नाङ्कन - निपातनास्थिभञ्जन - नासाभेद-प्रहार-दवन छविच्छेदनाभियोगप्रापण-कशांकुशारानिपात-दमनानि वाहनानि च मातपितविप्रयोग-श्रोतःपरिपी,नानि शस्त्राग्नि-विषाभिघात-गलगवलावलनमारणानि च, गलजालोत्क्षेपणानि प्रज्वलनविकल्पनानि च यावज्जीविकबंधनानि पंजरनिरोधनानि च स्वयूथनिर्घाटनानि धमनानि च दोहनानि च कुदण्डगलबन्धनानि वाटकपरिवारणानि पंकजलनिमज्जनानि च वारिप्रवेशनानि चावपातनिभंग-विषमनिपतन-दवाग्निज्वाला-दहनानि (न्यादि) च। एवं ते दुःख शतसंप्रदीप्ता नरकादागता इह सावशेष-कर्माणः तिर्यक्पञ्चेन्द्रियेषु प्राप्नुवन्ति पापकारिणः कर्माणि प्रमाद-राग-द्वष-बहुसंचितानि अतोवासातकर्कशानि।
भ्रमर-मशक-मक्षिकादिषु च जातिकुलकोटिशतसहस्रष नवसु चतुरिन्द्रियाणां तत्र तत्र चैव जन्ममरणान्यनुभवन्तः कालं संख्येयकं भ्रमन्ति नैरयिकसमानतीव्रदुःखाः स्पर्श-रसन-घ्राणचक्षुःसहिताः । तथैव त्रीन्द्रियेषु कुन्थुपिपीलिकान्धिकादिकेषु च जातिकुलकोटिशतसहस्रषु अष्टस्वन्यूनकेषु त्रीन्द्रियाणां तत्र तत्र चैव जन्ममरणान्यनुभवन्तः कालं संख्येयकं भ्रमन्ति नैरयिकसमान-तीवदुःखाः स्पर्श-रसन-घ्राणसंप्रयुक्ताः । गण्डूलक जलौककृमिक चन्दनकादिकेषु च जातिकुलकोटिशतसहस्रषु सप्तस्वन्यूनकेषु द्वीन्द्रियाणां तत्र तत्र चैव जन्ममरणान्यनुभवन्तः कालं संख्येयकं भ्रमन्ति नैरयिकसमानतीव्रदुःखाः स्पर्शरसनसंप्रयुक्ताः । प्राप्ता एकेन्द्रियत्वमपि पथिवी-जल-ज्वलन-मारुत-वनस्पति सूक्ष्मबादरं च पर्याप्तमपर्याप्तं प्रत्येकशरीरनाम साधारणं च, प्रत्येकशरीरजीवितेषु (जीवेषु। च तत्रापि कालमसंख्येयकं भ्रमन्ति, अनन्तकालं चानन्तकाये स्पेशन्द्रिय भावसम्प्रयुक्ता दुःखसमुदयमिदमनिष्टं प्राप्नुवन्ति पुनः पुनस्तत्र तत्र चैव परभवतरुगणगहने ।
कुद्दाल-कुलिक-दारण-सलिलमलन-क्षोभण - रोधनानलानिल-विविधशस्त्रघट्टन-परस्पराभिहनन-मारण-विराधनानि चाकामिकानि परप्रयोगो