________________
नवमोऽध्यायः
भैरव उवाच । साधुदेवि महाप्राज्ञे अपूर्व' पृच्छते विधिम् । प्रवक्ष्यामि न सन्देहो येन सिध्यन्ति साधकाः ॥६६॥
_[मन्त्र] ॐ नमो भगवति चामुण्डे नमः । 'पानयेति सर्वत्र वीरव्रतं लक्ष जपेत सम्मतो भवति ।
ऊँ श्मशान वासिनि नमः । अनया श्मशान प्रवेशनम् ॥. ॐ खट्वाङ्ग कपाल हस्ते नमः । अनया मन्त्रावलम्बनम् ॥ ऊँ महाप्रेतसमारूढे नमः । अनया सर्वशस्त्र स्तम्भनम् ॥ ऊँ महाविमानमालाकुले नमः । वृष्टिवारणम् ॥ ऊँ कालरात्री नमः । अन्तर्धानकरणम् ॥ ॐ वहुगणपरिवृत्ते नम । जल साधनम् ॥ ॐ महासुखे बहुभुजे नमः । शस्त्रमोक्षणम् ॥
ऊँ घण्टा डमरूकिङ्किनीनाद शब्दबहुले नमः । अनया सर्वविघ्ननिवारणम् ७०। मारीप्रवेशनम् = ॐ अट्टहासे नमः । खड्गस्तम्भनम् = ॐ स्फुरितविद्युत्प्रभे नमः । परसैन्यस्तम्भनम्-ॐ चल चल चकोरनेत्र नमः । कपालमथनम् समस्त माकर्षणम् -ॐ हिलि हिलि ललनजिह्व नमः । स्त्रियाकर्षकणम्- ॐ मी भृकुटिमुखे नमः । . विसर्जनम्-ॐ हुंकारभयत्रासिनि नमः । सर्वसत्त्ववशीकरणम्-ॐ कपालमालावेष्टित जटामुकुटशशाङ्कधारीणि नमः । परमन्त्रच्छेदनम् = ॐ अट्टहासे किलि किलि नमः ।
१. अपूर्ववत पृच्छकि का
२. अनया वीरव्रतेन लक्ष क । ३. परिते क।
४. महामुखे ख।
५. अयं पाठो नास्ति ख । ६. कपालमथनात् सर्वमाकर्षणम् ख । ७. अयं पाठो नास्ति ख ।