SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः न तस्य व्याधयः शोको न हानि च शत्रवः ॥५॥ न 'ज्वरातिभयोद्व गा नापि मित्रेष्टनाशनम् । नाकाले मरणं तस्य न चापायोऽस्य सम्भवेत् ॥८६॥ मोचते सर्वपापानि श्रवणात् पठनादपि । धारणात् पत्र भूर्जेषु ताम्रपात्रेषु' पूजयेत् ॥७॥ यन्त्रपुस्तकमन्त्रेषु सर्वकामान् प्रयच्छति । ब्रह्महत्या सुरापानं हन्यात् पातकदुष्कृतम् ॥८॥ सकृदुच्चारणाद् ब्रह्मन् सर्वकर्मफलं लभेत् । सर्वतीर्थतपोदानं सर्ववतप्रदायिका ॥८६॥ शङ्करेण कृता रक्षा सर्वकामार्थसाधिका । गृहेऽपि तिष्ठते यस्य स सुखं यश प्राप्नुयात् ॥६०॥ इति शङ्करगीतारक्षा समाप्ता। ब्रह्मोवाच। सिहं निष्पादितं देव देव्याया विनिवेदय । तदङ्गतेजः सम्भूता जयाद्या याश्च मातरः ॥१॥ ता देव्याज्ञाकरा भूत्वा मत्र्ये गत्वा रराम च । जम्बूद्वीपे महाद्वीपे सर्वभोगफलप्रदे ॥२॥ विन्ध्ये पर्वतराजेन्द्रे'• नर्मदाजलफेनिते" । निळू तपावकलिले१२ ऋषिसिद्धनिषेविते ॥३॥ वधाय सुरशत्रूणां नराणाञ्च हिताय च । परित्राणाय भक्तानां सर्ववर्णाश्रमेषु च ॥१४॥ अन्त्यजानां महाभाग भक्तानां समदर्शनाः । पूजिताः संस्तुता देव्यः कर्मभावफलप्रदाः ॥६५॥ एवं ताः सम्मतीः कृत्वा नायिका मातरातिहाः१४ । नियुक्ताः शम्भुना मत्र्ये विन्ध्ये शैलवरोत्तमे ॥१६॥ तदा ताः१३ सर्वगा भूत्वा सप्तद्वीपाश्च मेदिनीम् । व्यापयित्वा स्थितास्तस्मिन् विन्ध्ये भूधरसत्तमे १७॥ इति श्रीदेवीपुराणे देवीविन्ध्यावतरणं नाम सप्तमोऽध्यायः१५ ॥७॥ १. जराति० क। २. पठनेऽपिवा क। ४. सर्वयज्ञफलं क ग । ५. लेखेऽपि क। ७. तदंश० क ।त्वदं शतेज ग , ८. भूतयः क ग। १०. राजे च क ग। ११. स्फालिते क ग। १३. नतवर्तिकाः इति ख-पुस्तकस्य पाठान्तरे, ग। १५. इत्याद्य देव्यवतारे विन्ध्यावतरणं क ग। ३. पट्टेषु पूजनात् क । ६. देवीपुराणे देव्यवतारे इत्यधिकः पाठः ६. वरप्रदाः क। १२. पावकासत्व० ख । १४. ततस्ताः क।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy