________________
३२
देवीपुराणम्
षण्मुखो मणिबन्धेषु नागाश्च पार्वतः स्थिताः । कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ ॥४८॥ दन्तेषु वसवः सर्वे जिह्वायां वरुणः स्थितः । हङ्कारे चर्चिका देवी यमयक्षौ च गण्डयोः ॥४६॥ सन्ध्याद्वयं तथौष्ठाभ्यां ग्रोवायामिन्द्र प्राश्रितः । ग्रीवासन्धिषु ऋक्षाणि साध्याश्चोरसि संस्थिता ।
निघृणत्वे तमस्तस्य क्रौर्ये सर्वांस्तु पूतनाः ॥५०॥ पालने मातरो देव्यः अपाने पितरः स्थिताः । श्रिया रूपे स्थिता तस्य बाले चादित्यरश्मयः ॥५१॥ वृषणे मेरुविन्यस्तः सागरा वसने' स्थिताः। सरितस्तस्य स्वेदस्थाः स्थापिताः परमेश्वर ॥५२॥ यज्ञाः सदेवताः सर्वे चाङ्गुले चाभवद् य सः । बलं वीर्यञ्च देवेश त्वदीयं यस्य सर्वतः ॥५३॥ खादकादीनि रक्षांसि न्यस्तव्यानि सुरेश्वर । सर्वेषां वाहनादेव ये च यस्य नियोजिताः ॥५४॥ प्रात्मनः पररक्षासु पथि संग्रामसागरे । भूतराक्षसवेतालाधरीणां सङ्कटेषु च ॥५५॥ ग्रहदुष्टेषु सर्वेषु "उपसर्गमयेषु च । सुरकिन्नरकन्यासु ह्यप्सरास्बलासु च ॥५६॥ गर्भरक्षा मातृरक्षा पुत्रार्थे गुर्विणीषु च । एवं संपृष्टवान् देव द्र हिणः केशवेन च ॥५७॥ विहस्य कथ्येत शक्र यथावदनुपूर्वशः । नमः पिङ्गलनेत्राय कोटराक्षाय भैरव ॥५॥ नमस्ते घोररूपाय सुरासुरभयङ्कर । नमः खट्वाङ्गहस्ताय रुरुचर्मा वाससे ॥६॥ ५ नमः कपालमालाय ब्रह्मकृष्णसभाजने' । नमः कराल-मालाय नारायण-तनूरुहे ॥६०॥ नमो मुद्गर- हस्ताय खड्गपट्टिशधारिणे । नमः परशुहस्ताय पिनाकवरपाणिने ॥६१॥ नमः शङ खगदा-हस्त १२ क्रतु-डमरू-वादिने । नमः शैल महावेश'3 महावेगनिनादिते ॥६२॥ नमः शैलमहाघोर वज्रहस्ताय चक्रि णे । ऊर्ध्वकेश महावेष महामेघनिनादिने ॥६३॥ महाविद्य जिह्वाय महा-उल्कानिभाय च । सोमसूर्याग्निनेत्राय नानाक्रीडारताय च ॥६४॥ नाना-भक्ष्य-क्रिया-भोज्य-नानाहार-प्रियाय च । मांसासवरसामेथ पूतनादि-रताय च ।
कृन्त कृन्त सुराध्यक्ष शत्रुवर्ग महावल ॥६५॥
१. रसने ख।
२. वेदस्थाः क । ३. स्थीयतां क ग।
४. लाङ्गले क। ५. भवतोन्यसं क ग। ६. यथा क । ७, प्रौपसर्गभयेषु क। ८. महारक्षा क ग । ६. खड्गपट्टिशधारिणे क। १०. नमः कपाल......मुद्गरहस्ताय इति नास्तिक :
११. ब्रह्मशिरविभाजने ग। १२. कुन्त क दन्त ग।
१३. महाबेग महावेगनिनादिने इति नास्ति क ग ।