________________
पञ्चमोऽध्यायः ।
भगवानुवाच ।
सत्यमेव महाप्राज्ञ बृहस्पति वचस्पते । त्वमेव वेदितु योग्यः सर्व न्याय विवेचकः ॥१॥ शम्भुगीता नया यस्य प्रौशनाश्च तथा निजाः । मदीया ब्रह्मगीताश्च वेत्ति यः स वचस्पति ॥२॥ त्वया इन्द्रस्य नाथेन सचिवेन महात्मना । को न बाधयितुं शक्यः शूलपाणिरपीहया ॥३॥ सर्वगुणप्रधाना ये दुर्विज्ञ या महात्मभिः । योगिभिः षड्गुणा एव मन्त्रिभिः सन्धिवादिभिः ॥४॥ विभिन्नाः सन्धिसन्धाने समदोषाश्च बाधयः । सन्धत्ते समतेजस्तु सचिरं भिषजौ वरौ ॥५॥ त्वं त्रिकालनयं वेत्ता सर्वविद्याविशारदः । वदास्य यद्भवेद्य क्त सुरराजस्य सत्तम ॥६॥
वृहस्पतिरुवाच देवदेव सुराध्यक्ष शंख चक्र गदा धर । त्वदीया मे मतिर्भद्रा न निजासुरनाशन ॥७॥ मदानुभावो देवेश तव प्रत्यक्षतो वयम् । यद् वदामो महात्मानं धृष्टा कुलवधूरिव ॥८॥
तव वाचो गुणाविष्टा निष्कामन्तिस्म मन्मुखात् ।
तथापि किञ्चिदेवेशं हिताहितकरं प्रभो ॥६॥ तवाज्ञाकारिणो भूत्वा सुखमिच्छन्ति दिवौकसः । तिष्ठन्तु तस्य वाचायां यावदेवं त्रिलोचनम् ॥१०॥ तोषयित्वा जयां" देवीं विन्ध्याचलनिवासिनीम् । एवं ते मन्त्रयित्वा तु शक्रो विष्णुवृहस्पतिः१२ ।
नारदं प्रेषयामासु वज्रदण्डस्य शासने ॥११॥
१. रचितुक ।
२. स च क । ४. सन्धिवादिनः क । पंक्तित्रयं गपूस्तके नास्ति । ६. समतेजस्तु क।
७. त्वं हि क। ६. तन्मुखात्-ख ।
१०. किञ्चिदुद्दे शंक। १२. वाचस्पति: म
३. वाचां पतिः क ग । ५. व्याधयः क ग। ८. महात्मानो क ग। ११. भवान् ख ।