________________
प्रधान-सम्पादकीयम् इदमतीव प्रमोदास्पदं यदीकस्य पूर्व देवनागरीलिप्यां सर्वथा दुर्लभस्य 'देवीपुराण'-ग्रन्थस्येदम्प्रथमतया प्रकाशन-गौरवं श्रीलालबहादुरशास्त्री केन्द्रीय-संस्कृत-विद्यापीठ'मिदं लभते । अस्य विद्यापीठस्य पूर्व-प्रकाशितेषु ग्रन्थेषु-'इतिहास-काव्य-मीमांसा-वेद-न्याय-नित्यकर्म-शब्दालङ्कार-रस-ऋतुकाव्य-समीक्षाप्रवचन-व्याकरण-स्मृति'-ग्रन्थानां प्रकाशनानि सम्पन्नानि सन्ति । तत्रैव पुराण-विषयकोऽयं ग्रन्थस्तु प्रथम एवेति दृष्ट्याऽप्यस्य प्रकाशनस्य स्वातन्त्र्येण महत्त्वं विद्योतते ।
विद्यापीठस्यानवद्यान्यू श्यानि भारतीय-संस्कृतेः सस्कृतभाषायाश्च सार्वदिकी सार्वत्रिकी समुन्नति मनसि निधायव निर्धारितानि तानि च यथायथं. सफलयित् कटिबद्धतां श्रिताः सर्वेऽप्यस्य सम्पोषका: सञ्चालकाश्चानवरतं तादृशेषु कर्मसु दायेन प्रवृत्ता एव वर्तन्ते । अस्य माध्यमेन विधीयमानासु संस्कृतसेवासु प्रारम्भादेवाध्ययनाध्यापनाभ्यां सह ग्रन्थप्रकाशनमपि मुख्य लक्ष्यमस्ति । लक्ष्यस्यास्य सम्पूर्तयेऽद्य यावत् प्रायः पञ्चविंशति ग्रन्धाः प्रकाशनं प्राप्ताः ।
पुराणशास्त्राणि संस्कृत- वाङमयस्यातीव महत्त्वपूर्णानि निधानानि विद्यन्ते । भारतस्य प्राक्कालिकस्य धार्मिक-सामाजिक-राजनीतिक-सांस्कृतिकादीतिहासस्य परिशीलनाय पुराणान्येव मुख्यतयाऽधारभूतानि सन्ति । एतेषां महत्त्वं विश्वस्य विद्याविदो वदन्ति स्वीकुर्वन्ति च । पुराणेषु वणिताः सदाचार-विचारप्रस्थापका विषया प्राणिमात्रस्य कल्याणकराः पथो निर्देशकाश्च विद्यन्ते । राष्ट्रियतत्त्वदृष्ट्यापि पुराणेषु नदीनां नदानां पर्वतानां ग्रामाणां नगराणां तीर्थानां महर्षीणां महापुरुषाणां राज्ञां च वर्णनानि लोकशिक्षणाय सुबहुपयोगीनि वर्तन्ते । उक्त च
यत्र धर्मार्थकामानां मोक्षस्य च मुनीश्वराः । माहात्म्यमखिलं ब्रह्म ज्ञायते परमेश्वरः ।। सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।" वंशानुचरितं दिव्याः पुण्याः प्रासङ्गिकी: कथाः ।।
- (कूर्ममहापुराणे-१-१-२४-२५) एतदनुसारं वैविध्यसंवलितेषु तेषु तेषु पुराणेषु मन्ये नकोऽपीदृशो विषयोऽवशिष्टो भवेद् यस्य चर्चा तत्र नामता स्यात् ।
पुराण-शब्दोऽयं बहुत्र पुराण-ग्रन्थेषु महापुराणग्रन्थस्य परिचयाय प्रयुक्तः । 'अष्टादश पुराणानि' वाक्यमिदं सर्वत्र सुप्रसिद्धम् । परमेषा गणना न सार्वत्रिकी। यतो हि महापुराणनाम्ना प्रसिद्धि प्राप्तेभ्यः पुराणेभ्योऽप्यतिरिक्तानि सुबहूनि पुराणानि वर्तन्ते यान्युपपुराणरूपेण स्वीक्रियन्ते परं तेषु 'उपपुराण'-नाम्नो निर्देशो न भवति । तानि च ‘भार्गव-पुराणम्, साम्बपुराणम्, कालिकापुराणम्, कल्किपुराणम् प्रभृतीनि सन्ति ।
'देवीपुराण'मिदमपि महापुराण-सङ ख्यायां तु न समाविशति तथाऽप्यस्य वर्णन-विषयाः पद्धतिश्च तादृशा एव सन्ति । वैष्णव-पुराणानामिव शाक्त-पुराणेष्वेतस्य माहात्म्यं प्रमुखतमं वर्तते ।