________________
विंशत्यधिकशततमोऽध्यायः ।
नरवाहन उवाच । देव्योत्पत्तिविधानं च व्रतचर्या पृथग्विधा । विहितं श्रोतुमिच्छामि तनुशुद्धि हुताशने ॥१॥
अगस्त्य उवाच । जप्त्वा तु चतुरष्टन्तु' अष्टाविंशमथापि वा । श्रूयते' लक्षमात्रेण यदि ब्रह्महनोऽपितु ॥२॥ शाकयावकक्षीराशी करमूलफलाशनः । पदमाला जपन्वत्स तनुशुद्धिमवाप्नुयात् ॥३॥ त्रितयं वा जपेन्मन्त्रः गायत्री लक्षमन्विताम् । मुच्यते सर्वपापैश्च यमनियमोपसेवनात् ॥४॥ ब्रह्मचर्य दया क्षान्तिः ध्यानं सत्यमकल्कता । अहिंसा सत्यमाधुर्य दमश्चेति यमाः स्मृताः ॥५॥ स्नानमौनोपवासेज्या स्वाध्यायोपस्थ निग्रहः। नियमात् गुरुशुश्रूषा शौचोऽक्रोधोऽप्रमादता ॥६॥ पंचगव्यं तु गोक्षीरं दधि मूत्रं शकृद् घृतम् । जप्त्वा परेऽ पवसेत् कृच्छ्र सांतपनं चरन् ॥७॥ पृथक कर्ता पर्णद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महासांतपनः स्मृतः ॥८॥ पर्णोदुम्बर राजीवः विल्वपत्र कुशोदकैः । प्रत्येकं प्रत्यहाभ्यस्तैः पर्णकृच्छ्र: उदाहृतः ॥६॥ तप्तक्षीरघृताम्बूनां एकेकः प्रत्यहं पिबेत् । एकरात्रोपवाप्तश्च तप्तकुच्छ्रन्तु पावनम् ॥१०॥ एकभक्त न नक्त न तथैवायासितेन च। उपवासेन चैवायं पादकृच्छ्रः उदाहृतः ॥११॥ यथाकथचित् त्रिगुणः प्राजापत्योऽयमुच्यते । अयमेवाति कृच्छ्रः स्यात् पाणिपुरान्नभोजनैः ॥१२॥ कृच्छ्रातिकृच्छ्र पयसा दिवसानेकविंशतिम् । द्वादशाहोपवासेन पराकः परिकीत्तितः ॥१३॥ वीण्य काचामतकाम्बु पशूनां प्रतिासरम् । एकरात्रोपवासश्च कृच्छ्रः सौम्योऽयमुच्यते ॥१४॥ एषं त्रिरात्रमभ्यासादेककं प्रत्यहं पिबेत् । तुलापुरुष इत्येष ज्ञेयः पञ्च दशाहिकः ॥१५॥
१. वर्णचतुथंतु क ग।
२. शुध्यते क ग । ३. परिणकं वतकात्यु च शत्रूणां प्रतिव सर क। पिण्याकं वातकात्युपसक्त नां प्रतिवासरः क ग ।