SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ एकाधिकशततमोऽध्यायः । मनुरुवाच । 3 अतः परं प्रवक्ष्यामि रूपसौभाग्यकारकम् । नक्षत्रविधिना वत्स यथा तुष्यति शंकरी ॥१॥ मार्गादारभ्य मूलेन पादौ जातिमयैः स्रजः । पूजयेत्सोपवासस्तु नक्षत्रोक्तं तु पारणम् ॥२॥ यवान्नं हविषा सिद्धं ब्राह्मने जंघे प्रपूजयेत् । कलारमृगराजश्च तिलमाषान्नभोजनम् ॥३॥ तेनैवं प्रथमं विप्रा अश्विन्यां जानूनी यजेत् । कुन्दः प्रसितपुष्पैश्च भोजनं दधिशर्करा ॥४॥ श्राषाढद्वयेऽपि तां देवीं विल्वपत्रैः प्रपूजयेत् । नक्षत्रांते तु भुजीयात् ब्राह्मणान् तच्च पारणम् ॥५॥ युग्मं फाल्गुनं गुह्यं तु पारयन्त्या प्रपूजयेत् । दधिभक्तं तु नैवेद्य कोटिञ्च कृत्तिकैर्यजेत् ॥६॥ दमनैः सितपुष्पैश्च लड्डुका देवी भोजने । भाद्रपदे द्वौ च पार्श्वे पूजयेत्कुसुमैः सितैः ॥७॥ क्षीरान्नं देवी विप्राणां नक्षत्रान्ते तु भोजनम् । पौष्या कुक्षिगता देव्या सहकारस्रजैर्यजेत् ॥ ८ ॥ घृतमाषान्न भोजनं तु अनुराधा उरो यजेत् । कणिकारत्रजैः पीतैर्भोजनं घृतपाचितम ॥ ॥ पृष्ठदेशं धनिष्ठासु हेमपुष्पैः प्रपूजयेत् । कर्णपत्रञ्च नैवेद्य देवीं शाखासु पूजयेत् ॥ १० मरुपत्रैः सुगन्धैश्च देयं भोज्यं तु पायसम् । करौ करेण पूज्यन्तु उशीरतगरादिभिः ॥११॥ १. माघादारभ्य ग । ३. रुपेऽपि चारु क ग । ५. दधि क ग । २. सुगित ख । ४. पुष्प कान्तेऽन्यगृह्य तु उषानत्या प्रपूजयेत् ग । ६. क्षीरपिष्टं सान्नभोज्यं व ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy