SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ अष्टषष्टितमोऽध्यायः । मनुरुवाच I गोतीर्थे पुत्रकामा धनकामाय सङ्गमे । मातृस्थानेषु सौभाग्यं श्मशाने मृतपुत्रिकाम् ॥ १ ॥ जीर्णे कूपे काकवन्ध्यां पुष्करिणीतटे शुभे । नित्यं विनायकस्थाने स्नापयेत्तु कुमारिकाम् ॥ २॥ रक्तवासोत्तरीयान्तु यस्या नोत्पाद्यते नरः । नद्यास्तु पश्चिमे कूले लेख्यस्तीर्थेषु चाग्रतः ॥३॥ मातृणां वामभागे तु यज्ञस्याग्नेयता दिशि । तले तु एक वृक्षस्य मध्ये चैव चतुष्पथे ॥४॥ लिखेत् पूर्वेणैव रणे श्मशाने नैर्ऋते लिखेत् । जीर्ण कूपे यथेच्छन्तु पर्व्वतस्योत्तरेण तु ॥५॥ ऐशान्यामेकलिङ्ग तु याम्यां वन आरामयोः । त्रिकूटस्योत्तरे भागे श्राधारस्याष्टपदे लिखेत् ॥ ६॥ पुस्तके नैर्ऋते लेख्यमायतनेषु पृष्ठतः । वायव्यां वारुणीमध्ये गोष्ठे चैव यथेप्सया ॥७॥ नैर्ऋत्यां याम्यमध्ये तु पुलिनेत समालिखेत् । कौवेरी ऐशानीमध्ये सङ्गमे च समालिखेत् ॥८॥ तडागात् पद रातेनैव लिखेद्दिक्षु यथेप्सया । एते स्थाना मयाख्याता स्थान श्रेष्ठाश्च दोषजाः । ॥६॥ भयं मृत्युं करिष्यन्ति गोत्रोत्सादं दरिद्रताम् । मन्त्रसिद्धिर्न जायेत सुतश्चैव विनश्यति । ॥ १०॥ कुलक्षयमतो यातिं सभृत्यपशुवान्धवः । श्रादौ भूमि परीक्षेत पश्चात् कुर्वीत मण्डलम् ॥११॥ सशल्यामुषरां चैव स्फुटितां विषमां तथा ॥ वल्मीकं ग्रामधानञ्च श्रशुभां तां विवर्जयेत् ॥ १२॥ तु धनक्षयः । स्फुटिते मरणं ज्ञेयं विषमे शस्त्रतो भयम् । वल्मीके श्रनपत्यार्थं ग्रामे धाने त्वनिर्वृतम् ॥१३॥ सुषमां शालां भूमि कूर्म्मपृष्ठोन्नतां तथा । पूर्व्वप्लवा वृद्धिकरी नराणाञ्च शुभप्रदा ॥ १४ ॥ सशल्यान्ते केशवहुला ऊषरे
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy