________________
२०६
पञ्चाशोऽध्यायः
हैमा वा रत्नवार्था वा शैला चावित्रजापि वा।
स्थाप्या पूर्व विधानेन सर्व काम प्रसाधनी' ॥२२४॥ मात चक्रो गतः कार्यो वीणाहस्तः सुरेश्वरः । तुम्बुरु भैरवो नाथ अन्ते विध्नेश्वरो भवेत् ॥२२५॥ गजवक्त्रो महाकायो लम्बोदर वृक्रोदरौ । परशुर्मोदकं वामे करे याम्येऽक्ष. सूत्रकम् ॥२२६॥ वरदं दण्ड मत्स्यं वा वामाद्ध युवती युवा । सुरुपा शोभना कार्या रति नाम्नी गजानने ॥२२७॥ सर्वाभरण शोभादि उभयोरपि कारयेत् । विद्य शो गजमानन्तु उपवीतं महोरगाम् ॥२२८॥ देवी पट्टांशु संवीता मणि कङ्कण च्चिता । हार केयूर शोभाभिस्तिलकालक भूषिता ॥२२६॥ कृत्वा तृतीय वर्णेन एड्भेदेन चेश्वरम् । वह्निना भवते देवी प्रौङ्कारा नम चण्डिका' ॥२३०॥ एतेऽर्चन जप होम प्रतिष्ठा यज्ञ कर्मरिण । मन्त्रा देवाय देव्यायाः स्वाहान्ता होमने मुने ॥२३१॥
यासां वाहन होमेज्या वलि स्वायुध कल्पना ।
नोदिता वत्स देवीनां तासां शृणु यथाविधि ॥२३२॥ वृषासना प्रकर्त्तव्या त्रिशूलायुध धारिणी । दघ्योदनं प्रकर्त्तव्यं वलिगन्धं सितं मतम् ॥२३३॥ होमं क्षीरं घृतं क्षौद्रं तिला याव फलानि च । सामान्यानां समस्तानां विद्याष्टक समुद्रकम् ॥२३४॥ ऋतुषट्क प्रकर्तव्यं वसन्तादि यथाविधि । वाला युवान मध्यावत् कृष्णाननभवोज्ज्वला ॥२३॥ गौरी वृद्धा शिशुश्चेति स्त्रीयुग्मा ऋतवो मताः । एकादश प्रकर्तव्याः सर्वे रुद्रास्त्रिशूलिनः ॥२३६॥ जटा भारेन्दु वाङ्गा वासुको कृतकङ्कणाः । त्रिनेत्राः सितवर्णाभाः सर्व देव नमस्कृताः ॥२३७॥ पूजिताः संस्तुता वापि सर्वकाम फलप्रदाः । महालक्ष्मीः प्रकर्त्तव्या नृत्यपाना कपालिनी ॥२३८॥
कत्त का मुण्ड खट्वाङी नपलामबरधारिणी । कूष्माण्डानां प्रेतस्था दन्तुरा वर्वरा गिरौ'२॥२३६॥ पूजिता नवमासे'3 तु सर्वकाम प्रदायिका ॥२४०॥ इत्याद्ये देवी पुराणे संवत्सर देवता तृतीय विंशति विधिः ।
१. प्रसीदनी कग। ३. तं क ग। ६. एतान क। ६. वर्मा कावासुकी क। १२. रायवां गौ क।
२. वृहत्कायो क । ४. गजमालीतु क।
५. नम वांतिका क ग । ७. आयुध क ।
८. सामान्यानि समस्तानि क। १०. मालार्मुडधारिणीक, वृषाम्वर धारिणी ग। ११. कुष्मांडानीषु क । १३. नभ क ग।