________________
देवीपुराणम्
१६७
एकभक्तेन नवतेन अयाचित' उपोषणः । क्षीराहारैर्यताहारैः कन्दमूलफलाशिन, ॥७३॥ यवषष्टिक गोधूमर्हविष्य कृत भोजनः। कर्त्तव्यं यजनं देव्याः सर्वकालं जितेन्द्रियः ॥७४॥ अनेनैव विधानेन सर्वपापक्षयो भवेत् । महापातकनाशाय इन्द्रण कृतवान् पुरा ॥७५॥ द्विजं वृत्रासुरं हत्त्वा पितृन हत्वा सुमालिना । सुतञ्च ब्रतं मनुना गुरु गौतम काश्यपैः ॥७६॥ एवं शुद्धिगता वत्स शक्र देवाः प्रजापते । राज्यार्थ वसुना कृत्वा ब्रह्मणा हरिणा यथा ॥७७॥ रुद्रण त्रिपुरं दग्धं विष्णुना शरभो हतः । अनेनैव विधानेन वेदान् शम्भुः गृहीतवान् ॥७८॥ नष्टां कूर्मतनुं कृत्वा प्राप्तवान् मधुसूदनः । अघृष्टौ कृतवानासीत् क्रतु दशरेथेन च ॥७९॥ अन्यश्च मुनि शार्दूल प्रजायुःराज्यकाङ्क्षिभिः । कृतवान् सुरगन्धव्वै र्यक्ष रक्षो सदा नृपः ॥१०॥
ये पुनर्भक्तिमास्थाय सर्वकालं यजन्ति च ।
तेषामायुः श्रिया ब्राह्मी स्वर्ग स्थानञ्च शाश्वतम् ॥८१॥ . यावद्भुश्चन्द्रमादित्यौ तावत् क्रीडन्ति ते सुखम् । स्वर्गे विष्णु पुरे रम्ये चन्द्रार्क ग्रह भूषिते ॥८२॥ आगत्य इह जायन्ते नृपा वेदार्थ पारगाः। देवी भक्ताः सदाचाराः सुखिनो विगतारयः ॥८३॥ देहान्ते शिवसायुज्यं प्राप्नुवन्ति परां गतिम् । त्रैलोक्याम्युदये पादे प्रभवे मङ्गलादिभिः ॥८४॥ विभवे विजयां देवीं शूलपद्माक्षधारिणीम् । वरदोयत सिंहस्थां सर्वकाम प्रसाधनीम् ॥८५॥ कृत्वा होमादिलाभेन पूजयेद्यस्तु भार्गव । सर्वदा सर्वकामान् स पूर्वोक्ताल्लभते २मुने ॥८६॥
भद्रां शुक्ले समे 3 कुर्याद् भद्रासन व्यवस्थिताम् ।
नीलोत्पल कल हस्तां शूल सूत्राक्ष धारिणीम् ॥८७॥ पुष्पराग कृता शोभा पूर्वोक्त विधिना नुताम् । क्षीराशी पूजयेद् यस्तु षडंगेन सुभावितः ॥८॥ सर्बपीठोपहारेण 'सुगन्ध कुसुमादिभिः । होमं क्षीरघृतैः कुर्याल्लक्षकन्तु महामुने ॥८६॥ सर्वकामानवाप्नोति मुच्यते ब्रह्म हत्यया । राष्ष्ट्रस्यास्य नृपाणाञ्च जायते वृद्धिरुत्तमा ॥१०॥
२. फलाशनैः क । ४. नष्टां कृर्मतनं वृत्त्वां प्राप्तवानां शरतर तोहतः क ।
१. भक्तन आयाचितः क । ३. रुतं प्रद्वत्वां ब्राह्मणासंन् क । ५. पंक्ति नास्ति क पुस्तके । ६. है क। ६. मंगला विधानं क। १२. पूर्वोक्ताक्षभत क।
७. स्वलपे क।
८. क पुस्तके पंक्ती न सन्ति । १०. पद्माख्या भारिणी क। ११. यस्क भावितः क । १३. शुक्ते शमां क। १४. राष्ट्रमस्य क ।