________________
देवीपुराणम्
एवं विधं महासौवं देव्यार्थे कारयेद् बुधः ।
तस्मिन् प्रतिष्ठयेदेवीं वेदी स्तम्भैः समः कृताम्' ॥४३॥ पञ्चोच्छ्रयकरा कार्या सपादं क्षितिगं परम् । पादोना चेष्टकोच्छ्रायां पूर्वद्वारा समेऽपि वा ॥४४॥ निष्पादिता यदा वेदी स्तम्भ तोरण भूषिता । तदा मण्डप विन्यासे तोरणं परिकल्पयेत् ॥४५॥ सर्व काम समृद्धयर्थमिषो मासः प्रकीत्तितः । चालनं स्थापनं वापि पुनः संस्कारमेव वा ॥४६॥
तस्मिन् देव्याः प्रकर्तव्यं महान्तं फलकांक्षिभिः ।
स्वल्प वीजान् महालाभं वप्ता काले 'अ वाप्नुयात् ॥४७॥ अधातः संप्रवक्ष्यामि देवी तोरण लक्षणाम् । सर्वासां येन देवीनां यजनाय भविष्यति ॥४८॥ स ज्वर व्रणनिह्यत बंदी स्तम्भैःसमैः शुभैः । कर्त्तव्यं तद्वदेवीनां तोरणं विस्तरोच्छ्रयम् ॥४६॥
हस्तभूमि गतं कार्य दृश्यं हस्त चतुष्टयम् ।
न्यग्रोधोदुम्वरोऽश्वत्थं प्लक्षः पूर्वा दिशा क्रमात् ॥५०॥ सर्वेषां शिवपट्टस्थं त्रिशूलं लाञ्छनं शुभम् । दर्भचीवर वस्त्राद्य स्रङ्माला गन्ध चच्चितम् ॥५१॥
विजयेति पदोच्चारात् तोरणं सन्निवेशयेत् । हरिचन्दन समाकारान् सुरवज्रोज्ज्वलान् सितान् ॥५२॥ धूम्र शुक्ल शिरीषाभान् पुष्पापीड विचित्रितान् ।
बहुरूपान् स्वरुपाभान्' देवाङ्कानुच्छ्रयेद् ध्वजान् ॥५३॥ इन्द्रादि लोकपालानां मध्ये छत्रं सुशोभनम् । सुवृत्तं प्रवरं श्वेतं वृषस्वस्तिकलाञ्छितम् ॥५४॥ चर्तुहस्त प्रमाणान्ता'२:पताका हस्तविस्तराः। ऋज्वरव्रणवंशश्च उच्छ्रयेद्विजयेति च ॥५५॥ पदं देव्याः समुच्चार्य यत्तद्वै सर्वकामिकम् । गजसिंह कृतैः सर्वैः कलसै बाँहुसंस्थितैः ॥५६॥
५. लक्षणाम् क ग।
१. कृताः क ग।
२. करं क। ३. पादनाचेष्ट क।
४. प्रसिद्धयर्थ क ग। ६. शनैः क ।
७. कर्तव्या च दुर्गे वीणां क। ८. स्व वक्रान ज्वलने स्थिता क । ६. पुष्पपीत क ग। ११. पुरं क।
१२. प्रमाणस्था क।
१०. सुपुष्पाभान् क ग।