________________
सप्तत्रिंशोऽध्यायः
त्रुट्यादि उच्यते कालः कालश्चान्ते विनाशने । भद्र ं करोति सा धाता भद्रकाली' मता ततः ॥७८॥ शक्ता या जगतः कर्त्तं सर्गानुग्रह संग्रहान् ।
शकि शक्तौ स्मृतो धातु: शिवा शक्तिस्ततः स्मृता ॥७६॥
वसत्यदृष्टा सर्व्वेषु भूतेष्वन्तहिताय च । धातुर्वस निवासेति वासना तेन सा स्मृता ॥८०॥ ब्रह्माणी ब्रह्मजननी ब्रह्मस्येयं च वा मता । रुद्रस्येयं तु रुद्राणी रौद्र हन्ति करोति वा ॥ ८१ ॥ महादेवात्समुत्पन्ना महान्ति वीक्षते यतः । माहेश्वर्या तनूर्यस्या माहेशी तेन सा मता ॥८२॥ कुमार रूपधारी च कुमार जननी तथा । कुमार रिपुहन्त्री च कौमारी तेन सा स्मृता ॥ ८३॥ शङ्ख-चक्र-गदाधारी विष्णुमाता तथारिहा । विष्णुरूपाथवा देवी वैष्णवी तेन गीयते ॥८४॥ वराह रूपधारी च वराहो यम उच्यते । तथा वाराह जननी वाराही वर वाहिनी ॥ ८५ ॥ इन्द्राणी इन्द्र जननी शाक्री शक्र पराक्रमा । व्रज्ञांङ्कुशधरा देवी वज्री तेनोपगीयते ॥ ८६ ॥ चन्डं वीभत्समित्याहुर्मुण्डं ब्रह्मशिरो मतम् । स्वामी मुण्डमतञ्चान्यै र्धारणी करणार्थं वा ॥८७॥ चामुण्डा कीर्तिता देवैर्मातॄणां प्रवरा तु सा । एका गुणात्मा त्रैलोक्ये तस्मादेका सा उच्यते ॥८८॥ देवी सा परमार्थेति वदन्ते भिन्नदर्शिनः । तत्र' बुद्धेरमोहाच्च दृष्टान्तानि ब्रुवन्ति च ॥८६॥ ब्रह्माणं कारणं केचित् क्वचिदाहु दिवाकरम् । केचिद् रुद्र ं परत्वेन प्राहुविष्णु तथापरे ॥०॥ कारणाच्च स्मृता ह्य ेते कारणार्थे सुरोत्तम । एकां सा तु पृथकत्वेन शिवा सर्व्वत्र विश्रुता ॥ ६१ ॥ यथा तु व्यज्यते व विचित्र : स्फटिको मरिणः । तथा गुरणवशाद्देवी नानाभावेषु वर्ण्यते ॥२॥ एको भूत्वा यथा मेघः पृथकत्वेनावतिष्ठते । वर्णतो रूपतश्चैव तथा गुणवशाज्जया ॥ ६३॥ नभसः पतितं तोयं याति स्वाद्वन्तरं यथा । भूमे रस विशेषेण तथा गुणवशाच्छिवा ॥६४॥ यथा द्रव्य विशेषेण वायुरेकः पृथग् भवेत् । दुर्गन्धो वा सुगन्धो वा तथा गुणवशादुमा ॥६५॥ यथा वा गार्हपत्याग्नि रन्य सङ्गान्तरं ब्रजेत् । दक्षिणा हवनीयादि ब्रह्मादिषु तथा च सा ॥९६॥
१४८
१. कालश्चात्यो क । ४. तद्वै क ग ।
६. स्मृता ह्य ेताना नार्थेषु क ।
२. साध्यातो क ग ।
५. ह क ग ।
७. शिवा देवी निदर्शनं क ।
३. शत्रु क ग ।
८. क पुस्तके नास्ति ।