________________
१ प्रवज्यावस्तु तु अन्यानपीत्यर्थः ॥ (५४३) संजानीत। गमिकः संघस्थविरः। संघचर्या-ईउपदेश- उद्देशादि-भक्तलाम-ग्लानसंविधानादि-करणीय-संपादनेन अनु-[ग]"ह्लीत ॥ चर्या-गोचरः। ईर्यापथ-ईर्या। तयोरुपदेशः, अयं गोचरः अयमगोचरः एवं गन्तव्यमित्यादि। उद्देशादि इत्यत्र स्वाध्यायनिकादीनां आदिशब्देन ग्रहणम् ॥ (५४४) वर्षापगतो अनुसंज्ञाय विहारं प्रप्रतिसंस्कुर्वतः संस्कारयेत्, संस्कुर्वतो अभ्युत्साहयेत् ॥ (५४५) पर्षद्गतान् सर्वः कथैषिता यां अनुलोमिकधर्मोपसंहारेणानुगृहीत ॥ स चेत् पर्षद्गताः कथां एषन्ते ततो यो यस्यानुकूलो धर्मोपसंहारः तेन अनुगृह्णीत । सर्वः इति संघस्थविरः, न च वर्षोपगतसंघस्थविर एव ।। (५४६) तूष्णीत्वे र[तान् उपेक्षेत ।। तूष्णींभावः तूष्णीत्वम् । आर्यः अत्र तूष्णींभावोऽभिप्रेतः, न मौनमात्रम् ॥ (५४७) गृहिणः उपगतान् भक्तान् संविभाजयेत् ॥ युक्तमेषां भक्तं. दातुमिति । भिक्षून बोधयित्वा यदि ते भिक्षवः संघस्थविरेण उक्ताः संविभागं न कुर्वन्ति, ते वा गृहिणो भोक्तुं नेच्छन्ति ततः-॥ (५४८) प्रकरणे अनिष्टौ वा धमतां कथां कृत्वा इदमस्माकं संविद्यते इति बयात् ॥ (५४९) पर्षदं तद्वान् सर्वः प्रत्यवेक्षेत || सर्वः पर्षद्वान्, न संघस्थविरः एव इत्यर्थः ॥ (५५०) मुधाचारिणं [Plate III. 8a]' निगृह्णीयात् ॥ सर्वः पर्षद्वान् इत्यनुषङ्गः। यथा न वृथा कालमतिनामयति, न निरर्थिकां प्रव्रज्यां करोति तथा कर्तव्यमित्यर्थः । (५५१) गमनादि अत्र यथा एतत्कुर्यात् ॥ एवं गन्तव्यं, एवं स्थातव्यं इत्यादि संनिवेशापेक्षः 'आदि'-शब्दः । 'अत्र' इति पर्षदि । 'यथा एतद्' इति यथा पर्षद्, पर्षदनुरूपं इत्यर्थः ।। (५५२) अ-नानातिर्यक-कथ: स्यात् ।। अत्र इति वर्तते । धर्मविनयादपक्रान्ताऽपाइँन अस्य वर्तिनी, तिर्यक् कथा, नानाकथाविप्रकीर्णाः ॥ (५५३-५५४) न पुरः पश्चाच्छमणो गच्छेत् ॥ न तिष्ठेदिति ॥ पुरतः पश्चात् (वा)37 श्रमणो न तिष्ठेदित्यर्थ ॥ (५५५) उक्तो बयादिति ।। नानुक्तेन किंचिद्वक्तव्यम् । (५५६)संपादयेद्वति ॥ यदस्य उच्यते पुरःश्रमणेन तत्संपादयेत् इत्यर्थः । (५५७) न अन्तराकथा अवपातयेत् इति ॥ पुरःश्रमणे कथां कुर्वाणे, न अन्तरा-कथां कुर्यादित्यर्थः ॥ (५५८) अधर्म भाषमाणं । (इति) पुरःश्रमणं । प्रतिवदेत् ॥ (५५९-५६०) धर्म अनुमोदेत ॥ संपन्नधार्मिकं लाभं प्रतिगृह्णीत ॥ इति पश्चाच्छमणः ॥एतत्पश्चात्-श्रमणवृत्तम् ।।
(c) कुलोपसंकामी भिक्षुगतम्। कुलोपसंक्रमिणो वृत्तमुच्यते ॥ (५६१) अनुन्नडः । इति सर्वः । कुले स्यात् अनुन्नडः अनवस्थितः ।। गृहादपक्रमितुकामता, अनवस्थितत्वम् ।। (५६२) अवक्षिप्तचक्षुरिति ।। विषयेभ्यः प्रतिसंवृतचक्षुरित्यर्थः ॥(५६३)धा गृहिभ्यः कथां कुर्यात् ।।