________________
१ प्रव्रज्यावस्तु परिज्ञानमेव संपत्स्यते इति ॥ (६८) आदरे नियुञ्जीत ॥ 'एषत्वमुपसंपन्न' इति गाथाभ्यां 'प्रास्तदिकस्य' इति अनया क्षणसम्पदो दौल भ्यं दर्शयति, यस्मात् असत्स्वपि अन्येषु अक्षणेषु १०, लब्धेऽपि प्राप्येऽनुकम्पकैः दृष्टि संपन्ने च मनुष्यत्वे बहवोऽत्र अपरिशुद्धिसंख्या अन्तराया [वैरू] 'प्यं च । तस्मात् दुर्लभा एषा ॥ (६६) सोपायाख्यानं च संपादने ॥ सहोपायाख्यानेन सोपायाख्यानम्, यदर्थं प्रव्रज्योपसंपत् तत्संपादने नियुञ्जीत-उपसंपन्नस्त्वं आयुष्मन् अप्रमादेन संपादय इत्यनेन । तद्यथा अनुप्राप्तस्त्वं एतत्स्थानं, अभिरतिरिदानीमत्र कर्तव्या इति । सामीच्याम् आदौ त्रिःकरणं संघसंघटितायां अनुशिष्टौ च निष[ण्णस्यो] कुटुकिकया पुरतः इष्टके पाणिभ्यां रहोनुशिष्टौ उपसंपदि स्थितस्य पात्रं वामे पाणी प्रतिष्ठाप्य, प्रतिच्छाद्य दक्षिणेन पाणिना इत्यादेः कर्मवस्तुनि वक्ष्यमाणत्वात् इह अनुपनिबन्धः ॥ उपसंपद्विधिः ॥
(iii) निश्रयगतम् (७०) नानवलोक्य निधयं निश्रितकरणीयं कुर्यात् ॥ अपृच्छनं अनवलोकनम्, अपृष्ट्वा न किश्चित्कुर्यादित्यर्थः ॥ [Plate I 7 a]' करणीयेषु अवलोकनप्रसक्तस्य किंञ्चित्करणीयस्य अपृष्ट्वाऽपि करणमुक्तं भगवता, इत्याह-(७१) मुक्त्वा उच्चारप्रस्रावं वन्तकाष्ठविसर्जनं सोपविचारविहारचंत्याभिवन्दनम् ॥ यद् अन्तक्पारसंख्येन कण्डनादिना व्यापारेण अभिव्याप्यते तच्चैत्याङ्गनम्, सोऽत्रोपविचारो युज्यते । सह उपविचारेण सोपविचारः, तत्र चैत्यं, तस्याभिवंदनम् ।। (७२) २एकानपञ्चाशत्-व्यामपर्यन्ताद्विहारतो गमनम् । मुक्त्वा इत्यनुबन्धः । एकान्न[पञ्चाशत्] इति 'आट'-सन्धिः a एकानपञ्चाशत्-व्यामस्य पर्यन्ताद्यावत् इत्यर्थः ॥ यत्र विहारे खातको वा प्राकारो वा अन्यो वा परिवारो विद्यते, तत्र स विहारान्त इति अध्यवसानं युज्यते । अनेकप्राकारादि-सद्भावे सर्वबाह्यः। तस्मात् तत्र तस्य बाह्यपार्श्वमस्य प्रमाणस्थावधिः । यस्तु[नोप] - विचारः तत्र विहारभित्तिरेवावधिः । यदत्र परतः पूर्वोक्तस्योपविचारस्य स्थानं, न तद्गतं चैत्यं अभिवन्दितव्यम्, इत्यत्रोपतिष्ठते ।। परिसर्पणभूतस्य एतदनुज्ञानम् । अन्यच्च, अतः चैत्याभिवन्दनमिति तत्र किं प्रतिपत्तव्यम् ?–तदर्थ न गन्तव्यम् अनापृष्ट्वा । परिसर्पणार्थं तु गतेन वन्दितव्यमिति । द्विविधमेतत्करणीयम्-[आरम्भ] -भूतं अभिनमनभूतं च। तत्र यदारम्भभूतं तस्यैव प्रतिषेधः, अभिनमनभूतस्य तु अप्रतिषेध्यत्वं व्यवतिष्ठते । नानापृच्छय आलपितव्यं, न संलपितव्यं, न प्रतिसंमोदितव्य, न प्रतिवचनं दातव्यं, नोदकदिग्धेन पाणिना धर्मितेन पादौ वा मुखं वा हृदयादिकं वा अनुपरिमार्टव्यं, नोदकेन हस्तादेः [परिमार्जनं (?) रजोवकीर्ण]"-वस्रादि प्रस्फोटयितव्यं इत्यादेः इति हासपदभूतस्य वृत्तस्य आपत्तेः ।।