________________
समर्पणम् योगाचारमतञ्च येन विततं श्रीसौगते शासने पूर्व येन विनेयदृष्टि रतुला स्पृष्टा महीशासकी। विज्ञानाश्रितधातुमार्गगणविधौ ग्रन्थाः कृता भूरिशः आर्यासङ्ग इतिप्रभास्वरयशा निर्वाणबोद्धा सुधीः ॥१॥ रचितम्तेन लोकेषु शास्त्रं सप्तदशभूमिः । तद् योगाचारभूमिश्च कथ्यते बुधभेषजम् ॥२॥ कालक्रमेण ग्रन्थोऽयमार्यावर्ते : विलुप्तवान् । . भूमिस्त्रयोदशी तस्यां भूमिः श्रावकसंज्ञिता ॥३॥ महापण्डितसूरिणा राहुलाख्येन शर्मणा। अन्यग्रन्थैः सह प्राप्तः - भोटदेशे सुदुर्गमे ॥४॥ संस्कृते श्रावकभूमि रस्माभिः प्रतिसंस्कृता। प्रस्तुता पूर्वभिदानी काश्यते परिशिष्टकैः ॥५॥ पूर्वाचार्यबुधेभ्यश्च . कल्याणमित्रसंसदे । इयं श्रावकभूमिर्हि सादरमर्प्यते । मया ॥६॥ यत्किश्चिदत्र स्खलितं तन्ममाऽविद्यया कृतम् । अनवद्यं च यत्सर्वं पूर्वेषां तनिषेवणात् ॥७॥