________________
30
Srāvakabhūmi शिक्षापदेषु विद्यन्ते चतस्रो गतयस्त्रिषु । वर्जयित्वा द्वे गती द्वे गती समुदानयेत् ॥ 8 ॥ द्वे द्वे प्रत्युपस्थाने एका निर्वाणगामिनी। अनुपूर्वोपनिषदभिन्नासंभिन्नभाविता ॥9॥ निष्कोकृत्यो भवेदादी पश्चाच्च सुखितो यतः । आद्य [1]सौ सर्वशिक्षाणां यत्र शिक्षेत पण्डितः ॥ 10 ॥ यती विशोधयेज्ज्ञ [T] नं शुभो [4] त्पत्तिसुखान्वितः । मध्यासो सर्वशिक्षाणां यत्र शिक्षेत पण्डितः ।। 11॥ यतो विशोधयेच्चित्तं प्रपंच च निरोधयेत् । श्रेष्ठासो सर्वशिक्षाणां यत्र शिक्षेत पण्डित [:] || 12 ॥ अशुभगामिनी प्रतिपत्तथा सुगतिगामिनी।। आभ्यां प्रतिपदुक्तेयं सा च निष्केवला मता ॥ 13 ॥ विशुद्धिगामिनो प्रतिपन्न सर्वात्यन्तगामिनी। प्रतिपदुक्तेयं [5] सापि निष्केवला मता ॥ 14॥ विशुद्धिगामिनी प्रतिपद् या सर्वात्यन्तगामिनी।। श्रेष्ठा प्रतिपदुक्तेयं सा चैवाद्वयकेवला ।। 15 ।। शिक्षेत यो न शिक्षेत उभौ तौ पण्डितौ मतो। शिक्षेत यो न शिक्षेत उभौ तौ बालसम्मतौ ।। 16॥ परिग्रहपरित्यागाद्दौष्ठुल्यापगमात्तथा प्रत्यक्षत्वाच्च ज्ञेयस्य शिक्षादानं त्रिधा भवेत् ।। 17।। सालम्बन। च सूक्ष्मौ [मो] दारि [6] कसहता। साभादानप्राविवेक्यघोष आभोगसंहृता ।। 18 ।। एक एका भवेच्छिक्षा सद्वितीया परा भवेत् । एक [1] स्यात् सतृतीयैव तां बुधः समतिक्रमेत् ।। 19 ।। अभ्रष्टशील. शिक्षासु प्रतिज्ञेयगतो भवेत् । अगहितसामचारः पञ्चस्थानविवर्जितः ।। 20 ।। अनापत्ताथ व्युत्थाता निष्कोकृत्यो[5]थ कोकृती। शिक्षा मार्गयेत्तत्र प्रतिपर्धेत भावतः ।। 21 ।।