________________
20
Srāvakabhūmi हेतुफलतोऽनुमानं कतमत् । यद्धेतुना फलस्य, फलेन वा हेतोरभ्यूहनम् । तद्यथा गत्या देशान्तरप्राप्तिमनुमिनोति, देशान्तरप्राप्त्या गतिम् । [1] राजा [T] राधने [ न ] महाभिसारलाभम् । महाभिसारलाभेन राजा [T] राधनम् । सुकृतसम्पन्नकान्ततया महाधनधान्यलाभम् । महाधनधान्यलाभेन सुकृतकन्तिता, प्राक्तनेन सुचरितदुश्चरितेन सम्पत्तिविपत्ती, सम्पत्तिविपत्तिभ्यां प्राक्तनसुचरितदुश्चरितं [ ते ] । प्रभूतभोजनेन तृप्ति, तृप्त्या प्रभूतभोजनम् । विषमभोजनेन व्याधि व्याधिनां विष [ 2 ] मभोजनं। ध्यानेन वैराग्यं, वैराग्येन [ ण ] ध्यानं । मार्गेण श्रामण्यफलम् । श्रामण्यं फलेन मागं । इत्येवंभागीयं हेतुफलतो[s]नुमानं वेदितव्यम् । इदमुच्यते अनुमानम् ।
आप्तागमः कतमः । यत्सर्वज्ञभाषितम्। ततो वा श्रुत्वा तदनु धर्म वा [। ] स पुनस्त्रिविधो द्रष्टव्यम् [ द्रष्टव्यः ] । प्रवचनाविरोधतः । संक्लेशप्रतिपक्षतः । लक्षणाविरो [3] धतश्च ।
प्रवचन[7] विरोधः कतमः । यः श्रावकभाषितो वा बुद्धभाषितो वा सूत्रान्तः परम्परागतः । तत्र यो धर्माविरोधः । अर्थावबोधः [ अर्थाविरोधः ।
संक्लेशप्रतिपक्षः कतमः। यो धर्मो भाव्यमानः रागविनयाय सम्व [ संव] तते । द्वेषविनयाय मोहविनयाय । सर्वक्लेशोपक्लेशविनयाय सम्व [ संव ] र्तते ।।
लक्षणाविरोधः कतमः । लक्षणविरोधविप[4]र्ययेण लक्षणाविरोधो द्रष्टव्यः । लक्षणविरोधः कतमः [1] यथापि तदसति लक्षणे सल्लक्षणं समारोपयति । तद्यथा आत्मा वा. सत्त्वो वा, जीवो वा, जन्तुळ इत्येवमादि। शाश्वतो वा उच्छिद्यते । रूपी वा अरूपी वेत्येवमादि च । सति लक्षणे ए [ ऐ] कान्तिको अनैकान्तिकतां व्यवस्थापयति । तद्यथा अनित्याः सर्वसंस्काराः, दुःखा [:] [5] सर्वसास्रवाः, सर्वधर्मा अनात्मानः [1] अयञ्च एकत्वं [ एकत्यं ] नित्यं व्यवस्थापयति । एकत्यमनित्यं, [ एकत्यं ] दुःखं व्यवस्थापयति एकत्यम ( त्यं ) मुदश्च । एकत्यमात्मेति व्यवस्थापयति ], एकत्यमनात्मा [1] तथा यान्यव्याकृतवस्तूनि भगवता व्यवस्थापितानि । एकान्तेन तेषां व्याकरणं । पर्येषते । व्याकरणतश्च व्यवस्थानं प्रत्येति । अने[ नै ]कान्तिकमप्ये[ प्यै ]कान्तिकेन। व्यवस्थापयति। तद्यथा, सर्वस्यां सु [6] रवायां वेदनायां रागो न शेत इति । सर्वस्यां दुःखायां द्वेषः। सर्वा सुखा वेदना सास्रवा एकान्तेन सुखेति । सांचेतनीयस्य कर्मणः। एकांशेन दुःखमेव विपाकं प्रतिसंवेदयतीत्येवमादि । सति लक्षणे यदविशिष्टलक्षणं तदविशेषतो व्यवस्थापयति । यद्वा विशिष्टलक्षणं तदविशेषतो व्यवस्थापयति । तद्यथा यत्संस्कृते [7] विशिष्टलक्षणं तदसंस्कृते[s]पि व्यवस्थापयति । [ एवं भावे विशिष्टलक्षणं त.. [ अभावे च ] तदपि