SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नखण्डमञ्जूषा - ~- ~~ -~~ ~ -~ ~ - ~ मय्युल्लडिन्तमर्यादे को हि तिष्ठेत्स्ववर्मनि । (क० स०) । मरणं प्रकृतिः शरीरिणाम् । (र० ५०) मर्दनं गुणवर्धनम् । मर्मवाक्यमपि नोचरणीयम् । महतां हि धैर्यमभिभाव्यवैभवम् । (कि० अ०) महतां हि सर्वमथवा जनातिगम् । (शि० व०) महतामनुकम्पा हि विरुद्धषु प्रतिक्रिया। (क० स०) महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु | किंचन । (शि० व०) महते रुजनपि गुणाय महान् । (कि० अ०) महाजनो येन गतः स पन्थाः । (प० त०) महानपि प्रसङ्गेन नीचं सेवितुमिच्छति। । महानुभावः प्रतिहन्ति पौरुषम् । (कि० अ०) महान्महत्येव करोति विक्रमम् । (प० त०) महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहः । (र०व०) महीपतीनां विनयो हि भूषणम् । महेश्वरमनाराध्य न सन्तीप्सितसिद्धयः। (क० स०) | महोदयानामपि संघवृत्तिता सहायसाध्याः प्रदिशन्ति सिद्धयः। (कि० अ०) मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गुणाः । माता च व्यभिचारिणी। (चा. नी०) मातापितृभ्यां शप्तः सन्न जातु सुखमनुते । (क० स०) मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने । (प० त०) मात्सर्यरागोपहतात्मनां हि स्खलन्ति साधुष्वपि मानसानि । (कि० अ०) मात्सर्येण दुरात्मकोऽपि सुजनं दृष्ट्वा सदा हासते । मात्रा समं नास्ति शरीरपोषणम् । मादृशो हि कथं कुर्युः सत्त्वोल्लङ्घनसाध्वसम् । (क० स०) माने म्लाने कुतः सुखम्। मासरत्नं वसन्तः। (प्र० भ०) मितं च सारं च वचो हि वाग्मिता। (नै० च०) मित्रार्थगणितप्राणा दुर्लभा हि महोदयाः। (क० स०) मिथ्या परोपकारो हि कुतः स्यात्कस्य शर्मणे । (क० स०) मिष्टानमितरे जनाः। (नै० च०) मुक्त्वा बलिभुजं काकी कोकिले रमते कथम् । (क० स०) मुखं विमुच्य श्वसितस्य धारया वृथैव नासापथधावनश्रमः। (नै० च०) मुखरतावसरे हि विराजते। (कि० अ०) मुख्यमङ्गं हि मन्त्रस्य विनिपातप्रतिक्रिया। (क० स०) मुमत्येव हि कृच्छ्रेषु संभ्रमज्वलितं मनः। (कि० अ०) मुह्यन्मार्गममार्ग वा रागान्धः को हि पश्यति । (क० स०) मूढः परप्रत्ययनेयबुद्धिः । (प० त०) मूर्खस्य किं शास्त्रकथाप्रसङ्गः । मूर्खस्य हृदयं शून्यम् । मूर्खाणां बोधको रिपुः। मू.हि सङ्ग कस्यास्ति शर्मगे। (क० स०) मूर्यो दृष्टव्यलीकोऽपि व्याजसान्त्वेन तुष्यति । (क० स०) मूर्योऽनुभवति क्लेशं न कार्य कुरुते पुनः। (क० स०) मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु। (अ० शा०) मृत्योः सर्वत्र तुल्यता। मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेष प्रणयिनि जने किं पुनर्दूरसंस्थे। (मे० दू०) मेघो गिरिजलधिवर्षी च। (प० त०) मोघा हि नाम जायेत महत्सूपकृतिः कुतः। (क० स०) मोहान्धमविवेकं हि श्रीश्चिराय न सेवते। (क० स०) मौनं विधेयं सततं सुधीभिः । मौनं सर्वार्थसाधकम् । मौनिनः कलहो नास्ति । म्लायति श्रीः कुलस्त्रीव गृहे बन्धक्यधिष्ठिते । (क० स०) यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः । (भर्तृ०) यतः सतां हि संगतं मनीषिभिः साप्तपदीनमुच्यते । (कु० स०) यतः सत्यं ततो धर्मः। यतो धर्मस्ततो धनम् । . यतो नागास्ततो जयः। .. ...... यतो रूपं ततः शीलम् । यत्तदने विषमिव परिणामेऽमृतोपमम् । यत्वे कृते यदि न सिध्यति कोऽत्र दोषः। यत्पूर्व विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः।' यत्र विद्वज्जनो नास्ति श्लाध्यस्तत्राल्पधीरपि । यत्राकृतिस्तत्र गुणा वसन्ति । यत्रास्ति लक्ष्मीविनयो न तत्र । यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः। यथा देशस्तथा भाषा। यथा बीजं तथाङ्करः। यथा भूमिस्तथा तोयम् । यथा राजा तथा प्रजा। यथा वृक्षस्तथा फलम् । यथाशक्त्यतिथेः पूजा धर्मो हि गृहमेधिनाम् । (क० स०) यथोत्तरेच्छा हि गुणेषु कामिनः। (कि० अ०) यथौषधं स्वादु हितं च दुर्लभम् । यदध्यासितमर्हद्भिस्तद्धि तीर्थ प्रचक्षते। (कु० स०) । यदनुद्वेगतः साध्यः पुरुषार्थः सदा बुधैः। (क० स०) यदन्नं भक्षयेन्नित्यं जायते तादृशी प्रजा । यदि वात्यन्तमृदुता न कस्य परिभूतये। (क० स०) यदेव रोचते यस्सै भवेत्तत्तस्य सुन्दरम् । यद्देवेन ललाटपत्रलिखितं तत्प्रोज्झितुं कः क्षमः।
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy