________________
[१०१]
५ ततो द्वींद्रिय अपर्याप्त स्थितिस्थानानि असंख्येयगुणानि । ६ ततो द्वींद्रिय पर्याप्त स्थितिस्थानानि संख्येयगुणानि । ७ ततस्त्रींद्रिय अपर्याप्त स्थितिस्थानानि संख्येयगुणानि । ८ ततस्त्रींद्रिय पर्याप्त स्थितिस्थानानि संख्येयगुणानि । ९ ततश्चतुरिंद्रिय अपर्याप्त स्थितिस्थानानि संख्येयगुणानि । १० ततचतुरंद्रिय पर्याप्त स्थितिस्थानानि संख्येयगुणानि । ११ ततोऽसंज्ञी अपर्याप्त स्थितिस्थानानि संख्येयगुणानि । १२ ततोऽज्ञी पर्याप्त स्थितिस्थानानि संख्येयगुणानि । १३ ततो द्वींद्रिय पर्याप्त गुरुस्थितिः विशेषाधिका । १४ ततस्त्रींद्रिय पर्याप्त जघन्यस्थितिः विशेषाधिका । १५ ततस्त्रींद्रिय अपर्याप्त जघन्यस्थितिः विशेषाधिका । १६ ततस्त्रींद्रिय अपर्याप्त गुरुस्थितिः विशेषाधिका । १७ ततस्त्रींद्रिय पर्याप्त गुरूस्थितिः विशेषाधिका । १८ ततचतुरंद्रिय पर्याप्त जवन्यस्थितिः विशेषाधिका । १९ ततश्चतुरिंद्रीय अपर्याप्त जघन्यस्थितिः विशेषाधिका । २० ततचतुरिंद्रीय अपर्याप्त गुरुस्थितिः विशेषाधिका । २१ ततश्चतुरिंद्रिय पर्याप्त गुरुस्थितिः विशेषाधिका । २२ ततोऽसंज्ञी पंचेंद्रिय पर्याप्त जघन्यस्थितिः संख्येयगुणा । २३ ततोऽसंज्ञी पंचेंद्रिय अपर्याप्त जघन्यस्थितिः विशेषाधिका । २४ ततोऽसंज्ञि पंचेंद्रिय अपर्याप्त गुरुस्थितिबंध विशेषाधिका । २५ ततोऽसंज्ञि पंचेंद्रिय पर्याप्त गुरुस्थितिबंध विशेषाधिका । २६ ततोऽयतेरुत्कृष्टस्थितिबंघः संख्येयगुणः । २७ ततोऽदेशविरति जधन्यस्थितिबंध संख्येयगुणः । २८ ततोऽदेशविरति उत्कृष्टस्थितिबंधः संख्येयगुणः । २९ ततोऽविरत पर्याप्त लघुस्थितिबंध: संख्येयगुणः । ३० ततोऽविरत अपर्याप्त लघुस्थितिबंधः असंख्येयगुणः । ३१ ततोऽविरंत अपर्याप्त गुरुस्थितिबंध: संख्येयगुणाधिकः । ३२ ततोऽविरत पर्याप्त गुरुस्थितिबंध: संख्येयगुणाधिकः । ३३ ततः संज्ञिपंचेंद्रिय पर्याप्त लघुस्थितिबंध: संख्येयगुणाधिकः । ३४ ततः संज्ञिपंचेंद्रिय अपर्याप्त लघुस्थितिबंध: संख्येयगुणाधिकः । ३५ ततः संज्ञिपंचेंद्रिय अपर्याप्त गुरुस्थितिबंधः संख्येयगुणाधिकः । ३६ ततः संज्ञिपंचेंद्रिय पर्याप्त गुरुस्थितिबंधः संख्ये यगुणाधिकः ।