SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाशः। ८७५ कर्म वा ऋजुता मनोवाक् कायविक्रियाविरह इत्यर्थः, मायारहितत्वमिति यावत् । मायावी हि सर्वातिसन्धानपरतया सर्वाभिशनीयो भवति, यदाहः मायाशील: पुरुषो यद्यपि न करोति कञ्चिदपराधम् । . सर्प इवाविश्वास्यो भवति तथा ह्यात्मदोषहतः ॥ १ ॥ इति मायाप्रतिपक्षभूता ऋजुता। अथ मुक्ति:-सा च बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदरूपा लोभाभाव इत्यर्थः । लोभाभिभूतो हि क्रोध-मान-माया-हिंसाऽनृत-स्तेया-ऽब्रह्म-परिग्रहदोषजालेनोपचीयते, यदाह : सर्वविनाशाययिण: सर्वव्यसनेकराजमार्गस्य । . - लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ! ॥ १ ॥ इति लीभपरिहाररूपा निर्भयत्व-स्वपरहितात्मप्रवृत्तिमत्त्व-' ममत्वाभाव-निस्मङ्गता-परद्रोहकत्वादिगुण युक्ता रजोहरणादिकेष्वप्युपकरणे वनभिष्वङ्गस्वभावा मुक्तिः । इति दशविधो धमः । ननु संयम-सूनृतशौच-ब्रह्मा-किञ्चनतानां महाव्रतेषु, क्षमामार्दवार्जवमुक्तीनां संवरप्रकरण, तपसश्च संवर-निर्जराहेतुत्वेनोक्तत्वाद् धर्मप्रतिपादनप्रकरणे पुनरुक्तत्वमेव । उच्यते - नात्र संयमादीनां पुनर्भणनं प्रकृतम्, किन्तु संयमादिदशविधधर्मप्रतिपादनप्रकारेण भगवतामहतां स्वाख्यातधर्मत्वानुप्रेक्षणमेव, इति धर्माणां गुणभावेन तदाख्यातॄणां भगवतामनुप्रेक्षानिमित्तं .. स्तुतिरिति सर्व समञ्जसम् ॥ ३ ॥
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy