SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ৩২ योगशास्त्रे रामतेत्यर्थः । तदर्थं गुरुकुलसेवनमपि ब्रह्मचर्यमित्यब्रह्मनिवृत्तिरूपं ब्रह्मचर्यम् । नास्य किञ्चनं द्रव्यमस्तीत्यकिञ्चनस्तस्य भावोकिचनता। उपलक्षणं चैतत्, तेन शरीरधर्मोपकरणादिष्वपि निर्ममत्वमकिञ्चनत्वम् । शरीरमपि धारयन्तो मुनयो निर्ममत्वात् तत् परिग्रहरहिता भोजनादिकमपि संयमयात्रार्थं शकटाक्षलेपनवत् कुर्वन्ति, न मूर्छया। उपकरणमपि च रजोहरणादिकं संयमरक्षार्थं वस्त्रपानादिकं च संयमशरीरपरित्राणार्थं धारयन्ति, न पुनर्लोभादिना इति निष्परिग्रहा एव । इति परिग्रहपरिहाररूपाऽकिञ्चनता। तप उक्त निर्वचनम्, उक्तस्य संयमादेर्वक्ष्यमाणस्य क्षात्यादेः संवरहेतोर्धर्मस्य मध्ये पठितम्, संवरनिर्जराहेतुत्वात् । . तच्च हादशप्रकारं पूर्वमुक्तम् । प्रकीर्णकं चेदमनेकविधम्, तद्यथायवमध्यं, वजमध्यं, चान्द्रायणे, कनकरत्नमुक्तावल्यस्तिस्रः, सिंहविक्रीडिते हे, सप्त सप्तमिकाद्याः प्रतिमाश्चतस्रः, सर्वतोभद्रम्, . भद्रोत्तरम्, प्राचाम्नवर्धमानमित्येवमादि। तथा, हादभिक्षुप्रतिमा मासिक्याद्या प्रा सप्तमासिक्याः सप्त, सप्तराविक्यस्तिस्रः, अहोरात्रिको, एकरात्रिको च । क्षान्तिः क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः । सा च क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात्, क्रोधदोषचिन्तनात्, बालस्वभावचिन्तनात्, स्वतकर्मफलाभ्यागमचिन्तनात्, क्षमागुणानुप्रेक्षणाच्च। तत्र येन दोषण मामाक्रोशति परः स दोषो मयि यद्यस्ति तदस्य सद्भूतमर्थं प्रकाशयतः कोऽपराधः ? ।
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy