SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ .: योगमाये .... दीनामन्यतमस्मिन् स्थानेऽवस्थान, मनोवाक्कायकषायेन्द्रियसंहतता च । इति षट्प्रकारं बहिस्तपो बाह्यं तपः । बाह्यत्वं च बाह्यद्रव्यापेक्षत्वात्, परप्रत्यक्षत्वात्, कुतीर्थिकैहस्यैश्च कार्यत्वाच्च। अस्मात् षडविधादपि बाह्यात् तपस सङ्गत्यागशरीरलाघवेन्द्रियविजय-संयमरक्षण-कर्मनिर्जरा भवन्ति ॥ ८८ ॥ अभ्यन्तरं तप पाह- .. प्रायश्चित्तं वैयावृत्त्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभं ध्यानं षोढेत्याभ्यन्तरं तपः ॥६॥ मूलोत्तरगुणेषु स्वल्पोऽप्यतीचारी निश्चितं मलिनयतीति तच्छुहार्थं प्रायश्चित्तम्-प्रकर्षण अयते गच्छत्यस्मादाचारधर्म रति प्रायो मुनिलोकस्तेन विचिन्त्यते स्मयतेऽतिचारविशुद्ध्यर्थमिति निरुतात् प्रायश्चित्तमनुष्ठानविशेषः । अथवा, प्रायो बाहुल्येन व्रतातिक्रमं चेतसि सञ्जानीते चेतश्च न पुनराचरतीत्यतः प्रायश्चित्तम्। अथवा, प्रायोऽपराध उच्यते स येन चेतति विशुध्यति तत् प्रायश्चित्तम् । भीमसेनात् पूर्व प्राचार्याश्चितैधातुं विशुद्धावपि पठन्ति, यदाहुः—'चिती संज्ञानविशुद्धयोः' । प्रायश्चित्तं च दशविधम्-आलोचनम्, प्रतिक्रमणम्, मित्रम्, विवेकः, व्युत्सर्गः, तपः, छेदः, मूलम्, अनवस्थाम्यता, पाराच्चिकमिति । तवालोचनं गुरोः पुरतः स्वापराधस्य प्रकटनम्। तच्चा. मेवनानुलोम्येन प्रायश्चित्तानुलोम्येन च। प्रासेवनानुलोम्यं येन
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy