SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ८५२ योगशाखे उपायानाहक्षमया मृदुभावन ऋजुत्वेनाऽप्यनीहया। क्रोधं मानं तथा मायां लोमं रुन्ध्याद् यथाक्रमम् ॥८२॥ क्षमया प्रतिपक्षभूतया क्रोधम्, मृदुभावन मानम्, ऋजुत्वेन मायाम, अनीहया लोभं निरुध्यात् संवरार्थं कृतोद्यम प्रति चतुर्थश्नोकपदेन योगः ॥ २ ॥ कषायाणां प्रतिपक्षतः क्षयमुक्त्वा विषयाणामाह असंयमकृतोत्मेकान् विषयान् विषसंनिभान् । निराकुर्यादखण्डेन संयमेन महामतिः ॥ ८३ ॥ असंयमेनेन्द्रियोन्मादेन कृत उत्सेकः स्वकार्यजननं प्रति सामर्थं येषां तान् विषयान् स्पर्शादौन्, किंविशिष्टान् ? विषसंनिभान् आपातरम्यत्वेन परिणामदारुणत्वेन च विषतुल्यान्, निराकुर्याद निवारयेत्। केन ?। संयमेनेन्द्रियजयेन। किविशिष्टेन ?। अखण्डेनाप्रतिहतेन ॥ ३ ॥ इदानौं योगप्रमादाविरतौनां प्रतिपक्षानाह-- तिसृभिर्गुप्तिभिर्योगान् प्रमादं चाप्रमादतः । सावद्ययोगहानेनाविरतिं चापि साधयेत् ॥ ८४ ॥ गुप्तिभिमनोवाक्कायरक्षणलक्षणाभिः, तिमभिरिति तासां
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy