SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाशः ।.. ८४८ पात्रे दानं तपःश्रद्धा रत्नत्रय्याविराधना। मृत्यु काले परीणामो लेश्ययोः पद्मपीतयोः ॥ ३१ ॥ बालतपोऽग्नितोयादिसाधनोल्लम्बनानि च। . अव्यक्तसामायिकता देवस्यायुष आश्रवाः ॥ ३२ ॥ मनोवाक्कायवक्रत्वं परेषां विप्रतारणम् । मायाप्रयोगो मिथ्यात्वं पैशून्यं चलचित्तता ॥ ३३ ॥ सुवर्णादिप्रतिच्छन्दकरणं कूटसाक्षिता। वर्णगन्धरसस्पर्शाद्यन्यथापादनानि च ॥ ३४ ॥ अङ्गोपाङ्गच्यावनानि यन्त्रपरकम्म च । कूटमानतुलाकर्मान्यनिन्दात्मप्रशंसनम् ॥ २५ ॥ . हिंसानृतस्तेयाब्रह्ममहारम्भपरिग्रहाः । परुषासभ्यवचनं शुचिवेषादिना मदः ॥ ३ ॥ मौखर्याक्रोशौ सौभाग्योपघातः कामणक्रिया। परकीतहलोत्पादः परिहासविडम्बना ॥ ३७॥ वेश्यादीनामलबारदानं दावाग्निदीपनम् । देवादिव्याजाद् गन्धादिचौर्य तीव्रकषायता ॥ ३८ ॥ चैत्यप्रतिश्रयारामप्रतिमानां विनाशनम् । अङ्गारादिक्रिया चेत्यशभस्य नाम आश्रवाः ॥ ३८॥ एते एवान्यथारूपास्तथा संसारभीरता । प्रमादहानं सद्भावार्पणं क्षात्यादयोऽपि च ॥ ४ ॥ दर्शने धार्मिकाणां च संभ्रमः स्वागतक्रिया। आश्रवाः शुभनानोऽथ तीर्थकबाम्न पाश्रवाः ॥ ४१ ॥
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy