SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Ge8 योगशास्ले संतोषानन्दजन्मा तन्मोक्षानन्दः प्रतीयताम् ॥ १० ॥ ननु तीव्र तपःकर्म कर्मनिर्मूलनं जगुः । सत्यं तदपि संतोषरहितं विफलं विदुः ॥ ११ ॥ कृषिसेवापाशुपाल्यवाणिज्यैः किं सुखार्थिनाम् । ननु संतोषपानात् किं नात्मा निई तिमाप्यते ? ॥ १२ ॥ यत् संतोषवतां सौख्यं णसंस्तरशायिनाम् । क तत् संतोषवन्ध्यानां तूलिका शायिनामपि ॥ १३ ॥ असंतुष्टास्तुणायन्ते धनिनोऽपीशिनां पुरः। ईशिनोऽपि वृणायन्ते संतुष्टानां पुरःस्थिताः ॥ १४ ॥ आयासमात्र नवर्यश्चक्रिशकादिसंपदः । अनायासं च नित्यं च मुखं संतोषसंभवम् ॥ १५॥.. इति प्रत्यादेष्टुं निखिलमपि लोभस्य ललितं मयोक्तः संतोषः परमसुखसाम्राज्य सुभगः । कुरुध्वं लोभाग्निप्रसरपरितापं शमयितुं तदस्मिन् संतोषामृतरसमये वेश्मनि रतिम् ॥१६॥२२॥ एवं च-त्यनेन वक्ष्यमाणसंग्रहश्नोक स्थावसरमाहक्षान्त्या क्रोधो मृटुत्वेन मानो मायार्जवेन च । लोभश्चानीहया जेयाः कषाया इति संग्रहः ॥२३॥ . पूर्वोक्तस्यार्थस्य संग्रहणात् संग्रहः ॥ २३ ॥ यद्यपि तुल्ययोगितया कषायेन्द्रि यजयो मोक्षरूपत्वेनोक्ती, तथाप्यनयोः कषायजयः प्रधानम्, तहेतुस्त इन्द्रियजयः, तदेवाह
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy