SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाशः। ८२३ तथापितुर्मातुः खसुर्धातुस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः कर्मभिर्यमसद्मनि ॥ ६२ ॥ पित्रादौनां पश्यतां ताननादृत्यैवात्राणोऽशरणो जन्तुः कर्मभिः परभववेदनीयैः शुभाशुभैर्य मसद्मनि यमालये नीयते । एतच्च लोकप्रसिद्यपेक्षम्, न पुनर्यमसद्मनि कश्चिद् नीयते, अपि तु चतुर्गतिस्वरूपे संसारे तत्तहत्युचितैः कर्मभिस्तत्र तत्र नीयत इति परमार्थः ॥ ६२ ॥ तथाशोचन्ति खजनानन्तं नीयमानान् स्वकर्मभिः । नेष्यमाणं तु शोचन्ति नात्मानं मूढबुद्धयः ॥६३॥ शोचन्ति शोकविषयतां नयन्ति स्वजनान् बन्धून्, अन्तमवसानं नीयमानान् खकर्मभिर्भवान्तरवेदनीयैर्मूढबुद्धय इत्युत्तरेण योगः । आत्मानं तु स्वकर्मभिरेवान्तं नेष्यमाणं न शोचन्ति। संनिहितपरित्यागे हि व्यवहितं प्रति कारणं वाच्यम्, संनिहितश्चात्मा, तस्य शोचनीयतां मुक्का व्यवहितस्य स्वजनादेः शोचनं बुद्धिमोहनिबन्धनमेव ॥ ६३ ॥ अशरणभावनामुपसंहरतिसंसारे दुःखदावाग्निज्वलज्जालाकरालिते। वने मृगार्भकस्येव शरणं नास्ति देहिनः ॥६४॥ संसार शरणं देहिनो नास्ति । कस्येव कुत्र ?। वने
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy