________________
८१०
- योगशास्त्र
एतावाद्यास्तिस्रोऽप्रशस्ताः, उत्तराः प्रशस्ताः। एताश्च मनुष्याणां परिवर्त्तमाना भवन्ति। ततश्च यदा उत्तरास्तिस्र प्रात्मनो भवन्ति तदा विशुद्धिरित्याख्यायते । यदा चैता मरणकाले भवन्ति, तदा तदनुरूपासु गतिष्वात्मा प्रयाति । तत्र कृष्णनीलकापोतलेश्यापरिणतो नरकेषु तियंत चोत्पद्यते । पौतपद्मशक्ल लेश्यापरिणतस्तु मनुष्थेषु देवेषु चोत्पद्यते । यदाहुभगवन्तः
'जल्लेमे मरइ तल्लेसेसु उववज्जइ । लौकिकास्त्वाहुः
अन्ते च भरतश्रेष्ठ ! या मतिः सा गतिर्नृणामिति । अत्र यदि मतिश्चेतनामात्र तदा या मतिः सा गतिरिति कि केन संगतम् ?। अथाशुद्धतमादिपरिणामयुक्ता मतिर्व्याख्यायते तीदमेव पारमष वचनं साध्वित्यलंप्रसङ्गेन । एवं तावदशुद्धलेश्यात्यागेन विशुद्ध लेश्यापरिग्रहेण च मनसः शुद्विरुक्ता ॥ ४४ ॥ इदानीं मनःशुद्धिनिमित्तमौषत्करमुपायान्तरमुपदिशतिमनःशुबैध च कर्तव्यो रागद्वेषविनिर्जयः। कालुष्यं येन हित्वात्मा वखरूपेऽवतिष्ठते॥४५॥ . मनसो भावमनस आत्मरूपस्य शुद्धिहेतवे कर्तव्यो गगद्देषयोः, प्रोत्यप्रोत्यात्म कयोर्विनिर्जयो निरोधः, उदितयोविफलौकरणेन अनुदितयोश्चानुत्पादनेन। तथा सति किं स्यात् ? कालुष्यम
. (१) यळेश्यो नियते तास लेश्यासु उत्पद्यते।