SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाशः। OLC एवं सामान्येनेन्द्रियदोषानभिधाय स्पर्शनादौन्द्रियाणां नोकपञ्चकेन दोषानाहवशास्पर्शसुखाखादप्रसारितकरः करौ। .. आलानबन्धनले शमासादयति तत्क्षणात् ॥२८॥ पयस्यगाध विचरन गिलन् गलगतामिषम् । मैनिकस्य करे दौनो मौनः पतति निश्चितम्॥२०॥ निपतन् मत्तमातङ्गकपोले गन्धलोलुपः । कर्णतालतलाघाताद् मृत्युमाप्नोति षट्पदः ॥३०॥ कनकच्छेदसंकाशशिखालोकविमोहितः । रभसेन पतन् दीप शलभो लभते मृतिम ॥३१॥ हरिणो हारिणौं गौतिमाकर्णयितुमुडुरः । आकर्णाकृष्टचापस्य याति व्याधस्य वैध्यताम्॥३२॥ स्पष्टाः नवरं वशा हस्तिनी, गलो रज्जुबदो लोहकण्ठकः, मौनान् हन्तीति मैनिको धीवरः, कर्ण ताल एव तलश्चपेटस्तेनाघातः, गोतिर्मीतम् ॥ २८ ॥ २८ ॥ ३० ॥ ३१ ॥ ३२ ॥ उपसंहरतिएवं विषय एकैकः पञ्चत्वाय निषेवितः । कथं हि युगपत् पञ्च पञ्चत्वाय भवन्ति न ? ॥३३॥ विषय इन्द्रियस्य गोचरः इन्द्रियप्रकरणेऽपि यद विषयस्य
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy