________________
ॐकाराकृतिरव्यक्तो, व्यक्तरूपस्त्रयीमयः; ब्रह्मद्वय प्रकाशात्मा, निर्भय परमाक्षरः।
दिव्य तेजोमयः शान्तः, परामृतमयोऽच्युतः; आद्योऽनाद्यः परेशानः, परमेष्ठि परः पुमान् ।
शुध्ध स्फटिकसंकाशः, स्वयंभूः परमाच्युतः; व्योमकार स्वरूपश्च, लोकाऽलोकावभासकः।
ज्ञानात्मा परमानन्दः, प्राणारूढो मनः स्थिति; मनो साध्यो मनोध्येयो, मनोदश्यः परापरः ।
सर्व तीर्थमयो नित्यः, सर्व देवमय प्रभुः; भगवान् सर्व तत्वेशः, शिव श्री सौख्यदायकः।
इति श्री पार्श्वनाथस्य, सर्वज्ञस्य जगद्गुरोः; दिव्यमष्टोतरं नाम, शत मत्र प्रकीर्तितम् ।
पवित्रं परमं ध्येयं, परमानन्द-दायकम्; भुक्ति मुक्ति प्रदं नित्यं, पठतां मंगलप्रदम् ।
श्रीमत्परमकल्याण, सिध्धिदः श्रेयसेऽस्तु वः; पार्श्वनाथजिनः श्रीमान्, भगवान् परमः शिवः।
धरणेन्द्र फणच्छत्रा, लंकृतो वः श्रियं प्रभुः; दद्यात्पद्मावतीदेव्या, समधिष्टित - शासनः।
ध्यायेत्कमलमध्यस्थं, श्री पार्श्वजगदीश्वरम्; ॐ ह्रीं श्रीं अर्ह समायुक्तं, केवलज्ञान भास्करम् ।