________________
त्वा-मामनन्तिमुनयः परमं पुमांस त्वामेव सम्यगुपलभ्य जयन्तिमृत्युं
मादित्य-वर्ण-ममलं तमसः परस्तात् । नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ।।23।।
त्वा-मव्ययं विभु-मचिन्त्य-मसंख्य-माद्यं ब्रह्माण-मीश्रर-मनंत-मनंगकेतुम् । योगीश्ररं विदितयोग-मनेक-मेकं ज्ञान-स्वरुप-ममलं प्रवदन्तिसन्तः ।।24।।
बुद्वा-स्तमेव विबुधार्चित-बुद्धि-बोघात् त्वं शंकरोऽसि भुवन-त्रय-शंकर-त्वात् । धाताऽसि धीर ! शीवमार्ग-विधे-विधानात् व्यक्तं त्वमेव भगव् ! पुरुषोत्त्मोऽसि ।।25।।
तुभ्यं नम-स्त्रिभुवनाऽऽर्तिहराय नाथ ! तुभ्यं नमः क्षिति-तलाऽमल-भूषणाय। तुभ्यं नम-स्त्रिजगतः परमेश्रराय तुभ्यं नमोजिन ! भवोदधि-शोषणाय ।।26 ।।
को विस्मयोऽत्र यदि नाम-गणे-रशेषै दौषै-रूपात्त-विविधाश्रय-जातगर्वैः
स्त्वं संश्रितो निरवकाशतया मुनीश !। स्वप्नांतरेपि न कदाचिद-पीक्षितोऽसि ।।27।।
उच्चै-रशोक-तरु-संश्रित-मुन्मयूख माभातिरूप-ममलं भवतो नितान्तम्। स्पष्टोल्लसत्-किरण-मस्त-तमो-वितानं बिम्बं रवे-रिव पयोधर-पार्श्ववर्ति ।।28।।
सिंहासने मणि-मयूख-शिखा-विचित्रे विभ्राजते तव वपुः कनकावदातम्। बिम्बं वियद्-विलस-दंशु-लता-वितानं तुंगोदयाद्रि-शिरसीव सहस्ररश्मेः ।।29 ।।
कुन्दा-वदात-चल-चामर-चारू-शोभं विभ्राजते तव वपुः कलधौत-कान्तम् । उद्यच्-छशाङ्क-शुचि-निर्झर-वारि-धार मुच्च-स्तटं सुर-गिरे-रिव शात-कौम्भम् । 30 ।।
छत्र-त्रयं तव विभातिशशांक-कान्त- मुक्ताफल-प्रकर-जाल-विवृद्ध-शोभं
मुच्चैः स्थितं स्थगित-भानुकर-प्रतापम् । प्रख्यापयत्-त्रिजगतः परमेश्वरत्वम् ।।31 ।।
उन्निद्र-हेम-नव-पंकज-पुञ्त-कान्ति पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः
पर्युल्लसन्-नख-मयूख-शिखा-भिरामौ पझानि तत्र विबुधाः परिकल्पयन्ति ।।32 ।।
इत्थं तथा तव विभूति-रभूज्-जिनेन्द्र ! धर्मो पदेशन-विधौ न तथा परस्य। यादृक् प्रभा दिनकृतः प्रहतान्धकारा तादृक्कुतो ग्रह-गणस्य विकाशिनोऽपि।।33 ।।