________________
हे...गाजे जगतमां जय जयकारा, विश्व मंगलनी अभिषेक धारा;
शिर पर थाये अभिषेक धारा, जाणे जग माटे करूणाधारा।
हे...महा प्रभावी औषधी लावे, मणि रत्नना चुर्ण मिलावे;
सोना रूपाना कळशो भरावे, प्रभुजीने अभिषेक करावे।
स्वस्ति स्वस्ति नमोस्तु ते भगवते, त्वं जीव जीव प्रभो। भव्यानन्दन नन्द नन्द, भगवन्नर्हस्त्रीलोकीगुरो। जैने स्नात्र विद्यो विद्युत कलुषे, विश्वत्रयी पावने। प्राप्त स्नात्रमिदं शुभोदयकृतेऽस्माभिः समाराभ्यते।
पुण्याहं तदहः क्षणोऽयमनघः पूजास्पदं तत्पदं, सर्वास्तीर्थभुवोऽपि ता जलभृतस्तद्वारि हारि प्रभो। तेऽनर्धा घुसृणादिगन्धविधयः कौम्भास्तु कुत्भाश्च ते, धन्या यान्ति कृतार्थतां जिनपतेः स्नात्रोपयोगेन ये। कुम्भाः कान्चनरत्नराजतमयाः क्षीरोदनीरोदयाः, भव्यैः स्नात्रकृते जिनस्य पुरतो राजन्ति राजीकृताः। सार्वा स्वीयशुभर्द्धि संगममये मांगल्य कुम्भा इव, गीतातोद्योरूनादैः सरभसममराब्ध नाट्य प्रबन्धे।
नाना तीर्थोदकुम्भै रजतमणिमयैः शातकुम्भैजिनः प्राक्, मेरोः शृंगे यथैन्द्रैः सजयजयवैर्मज्जितो जन्मकाले। कल्याणी भक्त यस्तं विद्यिवदिह तथा भाविनो मज्जन्तु,
जैने स्नात्र विद्यो विद्युतकलुषे विश्वत्रयी पावने, क्षुद्रोपद्रवविद्रवप्रणयिनां घ्यातं त्वति प्राणिनाम् । श्री संघे सुजने जने जनपदे धर्मक्रिया कर्मठे, देवाः श्री जिनपक्षपोषपटवः कुर्वन्तु शान्तिं सदा।