________________
श्री वज्रपंजर स्तोत्रम्
ॐ परमेष्टि नमस्कारं, सारं नव पदात्मकम्; आत्मरक्षाकरं वज्रपन्जराभं स्मराम्यहम्। ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् । ॐ नमो आयरियाणं, अंगरक्षातिशायिनि। ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दढम् । ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे। एसो पंच नमुक्कारो, शिला वज्रमयी तले। सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः। मंगला णं च सव्वेसिं, खादिरांगारखातिका। स्वाहन्तं च पदं ज्ञेयं पढमं हवइ मंगलं । वप्रोपरि वज्रमयं, पिधानं देह रक्षणे। महाप्रभावा रक्षेयं, क्षुद्रोपद्रव नाशिनी। परमेष्ठि पदोद्भूता, कथिता पूर्वसूरिभिः। यश्चैवं कुरुते रक्षा, परमेष्ठि पदैः सदा। तस्य न स्याद् भयं व्याधि, राधिश्चापि कदाचन।
क्षि प ॐ स्वा हा ।
आव्हानः ॐ आँ क्रौं ह्रीं श्रीं अर्हन् भगवन्! श्री शान्तिनाथाय ह्रीं गरूड यक्ष-निर्वाणी देवी सहिताय अत्र श्री महा -मस्त्काभिषेक महोत्सवे श्री शान्तिनाथ तीर्थ मंडपे आगच्छ आगच्छ।। संवौषट् ।। स्थापनाः ------ तिष्ठ तिष्ठ ठः ठः। संनिधानः ------ मम सन्निहितो भव भव वषट्। संन्निरोधः ------महोत्सवानन्त पर्यन्त यावद् अत्रैव स्थातव्य। अवगुंठनः ------परेषाम् दिक्षितानामदृश्यो भव भव।
(24)