________________
३२३.
समतामहोदधिः महाकाव्यम्
अत्यभ्यस्तसमत्वानां,
समर्पितहृदां तथा । त्वादृशामन्तिमे काले,
समाधिः सुलभः सदा ।।२५।।
चन्दनरसतुल्यैस्ते,
वचनैरभवन्गुरोः । स्वस्था आराधनायाञ्च,
युक्तवन्तः सुभावतः ॥२६॥
श्रावणमासशुक्लायां,
दशम्यां मानसं खलु । नैर्बल्यं प्रगतं वृद्धिं,
तदीयं विकृते रुजः ।।२७॥
नाऽचेतयस्ततो रात्रिं,
दिनं वा ते मुखादिति । तेषां शब्दाः किलाभ्यासा
निरसरन्शुभाः परम् ।।२८।।
१. विकृतेः = विकारात् ।