________________
३२१.
नमस्कारमहामन्त्र
प्रभृति धार्मिकं वचः ।
प्रसन्नैकाग्रचित्तेन,
प्रयातव्यं परत्र तु ।।२१ ।। ।। युग्मम् ।।
अपीडयत्तु रोगस्ता
वर्षैस्तु दशभिर्गतैः ।
स्वसमाधिमशङ्कन्त,
. समतामहोदधिः महाकाव्यम्
तेऽन्तिमसमये ततः ।। २२ ।।
गुरुभ्यः प्रोक्तवन्तस्ते.
स्वशङ्कां तेऽपि तानिति ।
आश्वासयन्समाधिर्न,
शङ्क्यस्तत्प्रेमभृद्धृदा ।।२३ ॥
त्वाद्दशा यदि लप्स्यन्ते,
न समाधिं कथं परे ।
लप्स्यन्ते तर्हि तं भेयं,
नेषदपि ततस्त्वया ।।२४।।