________________
३१५
_ समतामहोदधिः महाकाव्यम्
अहं तु श्रमणश्चिन्त्य
मिति चित्ते मुहुर्मुहुः । सनातनस्तथाऽऽत्मा मे,
__ भेतव्यं न मया ततः ॥९॥
स्वरूपमात्मनो ज्ञानं,
चारित्रं दर्शनं तथा । प्राप्यन्ते बाह्यवस्तूनि,
सम्बन्धेन तु कर्मणाम् ।।१०।।
सिद्धसाधर्मिकोऽनन्त
वीर्यवानविनश्वरः । आत्मा मे परमानन्द
मयो ज्योतिर्मयस्तथा ।।११।।
पद्मविजयपंन्यासाः,
सर्वेषां प्रेरणा हिताः । श्रुतवन्तः प्रमोदेन,
प्रायतश्च समाधये ।।१२।।