________________
३१३
समतामहोदधिः महाकाव्यम्
नमस्कारमहामन्त्रः,
स्मर्त्तव्यश्च प्रतिक्षणम् । उपचारस्तदेवाऽस्ति,
तथ्यो बाह्यस्तथा तु न ।।५।।
श्रीभद्रङ्करपंन्यास
दत्ताः सुप्रेरणास्तु यत् । जायन्ते वेदनास्तीव्रा,
मरणसमये तनौ ।।६।।
तदा मनो यतः शास्त्र
पाठे स्थिरं न जायते । स्थिरं तत्कार्यमेकस्मि
न्संवेगजे पदे ततः ।।७।।
एवं कुर्वंस्तु साधुर्यो,
मुञ्चत्याराधकस्तनुम् । उत्कर्षेण तृतीये स,
भवे मुक्तिं प्रगच्छति ॥८॥