________________
३०५
_ समतामहोदधिः महाकाव्यम्
वेगोऽपि पूज्यपद्माना,
साधनायामवर्धत । तेषां सर्वेऽपि सेवाया
मभवन्मुनयो रताः ।।४५।।
सुवैद्य हरिराहूतो,
दृष्ट्वा तेनेति भाषितम् । फुप्फुसयोर्बहिर्देशे,
स्फोटा जाताश्च रोगजाः ।।४६।।
शान्ता तद्दर्शितोपायैः,
पीडा स्तोकदिनै रुजः । नलियोजनदेशात्तु,
निरगच्छद्रवं ततः ।।४७।।
देहेऽशक्तिः पुनर्वृद्धा,
सुवैद्यो हरिरागतः । तेनोक्तं पृथुलं जातं,
रन्ध्र कार्यञ्च सीवनम् ।।४८॥
१. फुप्फुसः = ‘फेफसा' इति भाषायाम् ।