________________
३०३
_समतामहोदधिः महाकाव्यम् जाता पीडा निशां सर्वां,
यावत्परन्तु चेतसि । प्रावर्त्तताऽर्हतां तेषां,
जपः सुस्मरणं तथा ।।४१।।
पारणं कारितास्ते तत्,
तृतीये गुरुभिर्दिने, मत्वा तैरपि गुर्विच्छां,
कृतं हर्षेण पारणम् ।।४२।।
शङ्खधरस्य पार्थस्य,
श्रावकैरष्टमं कृतम् । तपसो वर्धमानस्य,
मूलं बद्धं तथा परैः ।।४३।।
शोभनाः साधुभिः सर्वैः,
संयमसाधनारतैः । कृता आराधना ज्ञान
तपोजपादिकास्तथा ।।४४ ।।