________________
३०१
समतामहोदधिः महाकाव्यम्
पिण्डिकेऽभवतां शुष्के,
तथा तदीयपादयोः । आत्मबलेन तेऽकुर्वन,
प्रवृत्तीः सकला दृढम् ।।३७।।
नाऽज्ञायत तनौ तेषां
रक्तबिन्दुस्तथाप्यहम् । इति जाने न तैः प्राप्तं,
कुतो दृढं मनोबलम् ?।।३८॥
अहा ! ज्ञातं स्वकीयास्तै
स्त्रयो योगाः समर्पिताः । गुरुचरणयोः प्राप्तं,
तद्गुरुकृपया बलम् ।।३९॥
प्रथममुपवासं ते,
कृतवन्तः समाधिना । द्वितीये किन्तु सञ्जातं,
शिरःशूलं भयङ्करम् ।।४०।।